________________
३५२ प्रमाणवात्तिकस्ववृत्तिटीका (१।१६२)
तस्मात् तत्र सामान्यस्यैवायोगव्यवच्छेदेन साधनम् । न तथाऽत्र क्वचित् सत्तासिद्धिः । प्रधानादिशब्दवाच्यस्यैवार्थस्याभावात् निविशेषेणैव सा सत्ता।
कथं स विज्ञातव्योऽभिधा तव्यो निश्चेतव्यश्चेति सोऽपि सिद्ध एव। तत् किमिदानीं ज्ञेयं अस्तीति सिद्धिरस्तु। तथाऽपि किं सिद्धं स्यात् ? अन्यत्र तदेवाग्निसामान्यं तत्र न सिद्धमिति साध्यते।
तत्रापि तदयोगविरहिणा सामान्येनान्वयो न सिद्ध एव ।
न वै कश्चित् तथाभूतेनार्थेनान्वयं करोति। तस्मात् परं प्रतिपादयता यत्र धमस्तत्राग्निरिति धूमोऽग्निनान्तरीयकोऽग्न्यविनाभावी दर्शनीयः, स तथाऽग्निमात्रेण व्याप्तः सिद्धो यत्रैव स्वयं दृश्यते तत्रैवाग्निबुद्धि जनयति। तत्र साध्यनिर्दे
तस्मादित्युपसंहारः । तत्रेति प्रदेशादौ । तदयोगव्यवच्छेदेनेति तस्मिन् प्रदेशादौ 128b धर्मिणि साध्यधर्मस्यायोगव्यवच्छेदेन सामान्यस्याग्निमात्रस्य साधनात्' नास्त्यत्वय
दोषः । नापि सिद्धसाध्यता प्रदेशायोगव्यवच्छेदस्यासिद्धत्वात् । प्रधानादिके धर्मिण्ययोगव्यवच्छेदेन सत्तामात्रं साध्यमिति चेदाह। न तथेत्यादि। क्वचिदिति प्रधानादिके धर्मिणि। कस्मात् (1) प्रधानादिशब्दवाच्यस्यैवार्थस्य त्रैगुण्यादिलक्षणस्यैवाभावात्। निविशेषेणैव सा सत्ता। विशेषणभूतस्याधारस्याभावात् (1)
कथमित्यादि परः। सोपि धार्मी कथं विज्ञातव्यः। ज्ञात्वा च शब्देनाभिधातव्यः । अभिहितः प्रमाणेन निश्चेतव्यः। तस्माज्ज्ञेयत्वादिभिः सोपि सिद्ध एव। तस्मिन सत्ता सामान्यं साध्यते। तत्किमिदानीं ज्ञेयन्निविशेषणमस्तीत्येतावता प्रधा न स्य सिद्धिरस्तु। ज्ञेयाद्यर्थो हि प्रधानार्थः शब्दार्थरूपः स्यान्न नित्यादिगणोपेतः। प्रधानन्तावत्सिद्धम्भवत्यन्ये च धर्मा अन्यः प्रमाणः सेत्स्यते इति चेदाह। तथापि ज्ञेयत्वादिना कि सिद्धं स्यात् (1) नैवाभिमतस्य प्रधानस्य स्वलक्षणस्य सिद्धि: स्यात् । अस्य शब्दार्थरूपत्वात् । अग्न्यनुमानेपि तद्यग्निमात्रं सिद्धमित्यसाध्यं स्यादित्याह। अन्यत्र तु तदेवाग्निसामान्यनियताधारमसिद्धन्तत्र देशे न सिद्धमिति साध्यते। ___ ननु तत्रापि तदयोगविरहिणेति तेन प्रदेशेनायोगस्तदयोगस्तेन विरहः प्रदेशेन योग इत्यर्थः। सोस्ति यस्य सामान्यस्य तत्तथोक्तं । तेनान्वयो न सिद्धः । • नेत्यादिना परिहरति । न वै कश्चिन्यायज्ञः तथाभूतेन प्रदेशसम्बन्धिनाऽग्निसामान्येन व्याप्तिं करोति। तस्मात् परं प्रतिवादिनं प्रतिपादयता धूभोग्निनान्तरीयकोग्न्यविनाभावी दर्शनीयः। यत्र धूमस्तत्राग्निरित्येवं । स धूमस्तथेति सोपसंहारव्याप्तिप्रदर्शनेनाग्निमात्रेण व्याप्तः सिद्धो यत्रैव प्रदेशे