________________
५. शब्द-चिन्ता
३५१
सत्तायां तेन साध्यायां विशेषः साधितो भवेत् । स हि धर्मी प्रधानलक्षण एको नित्यसुखाद्यात्मकोऽन्यो वा यथाकथञ्चिदपि विशेषितः तत्स्वभावः सिद्धः स्यात् । स च तथा नान्वेति ।
ननु यः सत्ता मात्रान्वयी सिद्धः न तेन सिद्धेन किमपि। अग्न्यादिषु न एवं प्रसंगः, तत्रापि नाग्निसत्तायां कश्चिद् विवादः। विशिष्टाधारविशेषणाभिमत-476a स्यानन्वयाद् असिद्धिः।
न वै स प्राधारो विशेषीकरोति । तदयोगव्यवच्छेदेन विशेषणाद् इत्युक्तं वक्ष्यते च ।
___स ही त्यादिना व्याचष्टे। एको मूलप्रकृतेर्भेदाभावात् । नित्यो निरन्वयविनाशाभावात्। त्रिगुणत्वात्मकत्वात् सुखदुःखमोहात्मकः। अन्यो वेति कर्तृत्वादियुक्तः। यथाकथंचिदपीति। यथोक्तैर्द्धमैः समस्तैर्व्यस्तैर्वा विशेषितः । 'तत्स्वभाव इति यथोक्तविशेषणविशिष्टस्वभावः (1) स च धर्मी तथेति विशिष्टेन स्वभावेन नान्वेति सपक्षे। तथा भूतस्य दृष्टान्तर्मिणोसिद्धेः। न तेन सिद्धेनेति सत्तामात्रेण। सत्तामात्रे विवादाभावात्। (१६१-६२)
नन्वित्यादि परः। एवं प्रसङ्ग इति यः सामान्यविशेषविकल्पेन सत्तायामुक्तः । तदुक्तं (1)
"विशेषानुगमाभावः सामान्ये सिद्धसाध्यते'ति । यस्मात्तत्राप्यग्न्यादिष साध्येषु नाग्निसात्तायां कश्चिद्विवादोस्त्यग्निमात्रस्य सिद्धत्वात्। न च तेन सिद्धेन किञ्चित् तस्याप्रवृत्त्यङ्गत्वात्। देशादिविशिष्टो ह्यग्निः प्रवृत्त्यङ्गं नाग्निमात्रं। स एव तर्हि साध्य इत्याह। विशिष्ट आधारोयत्राग्न्यादिकं साध्यते स विशेषणं यस्याग्न्यादिकस्य स विशिष्टाधारविशेषणं (1) तस्य। साध्यत्वेनाभिमतस्य। सपक्षेऽनन्वयादसिद्धिः।
नेत्या चार्यः। न वै स आधारो विशेषणभावेन गृहीतोपि तमग्निम्विशेषीकरोति । येनान्वयः स्यात् । किं कारणं। तदयोग इत्यादि। तस्य धर्मस्य तस्मिन् धर्मिण्ययोगो य आशंकितस्तस्य व्यवच्छदेन विशेषणात्। एतच्च पक्षधर्म (१।३) इत्यत्रोक्तं । वक्ष्यते च चतुर्थे परिच्छेदे (४।१४६)।
ननु च व्याप्तिग्रहणकाले प्रदेशायोगव्यवच्छिन्नो वह्निरसिद्धः। तत्सिद्धौ वा किमर्थोन्वयानुगमः । कथम् (1) असिद्धो यस्मात् । यत्र यत्र धूमस्तत्र त-त्राग्निरिति व्याप्तिं प्रतियता सामान्येनाभिमतदेशायोगव्यवच्छिन्नोपि बतिराक्षिप्त एव । केवलमिदानीमस्मिन्देशे वह्निरित्येवं विशेषप्रतीत्यर्थमन्वयानुगमनमिष्यते।