________________
३५०
प्रमाणवात्तिकस्ववृत्तिटीका (१।१६१) यात् । यथाह "प्रमाणविषयाज्ञानाद्" इति। स चायं विशेषः साध्यहेतु:1 क्वचिन्न व्याहन्यते। किन्तहि । हेतावपि तुल्यदोषत्वात्। न हि हेतुरनन्वयः सिद्धरङ्गम् । तेन संशयभूतत्वात् न सोऽपि दोषः । एवम्--
भावोपादानमात्रे तु साध्यसामान्यधम्मिणि ॥१९०॥
न कश्चिदर्थः सिद्धः स्यादनिषिद्धश्च तादृशम् । न सर्वथा सत्तासाधने विशेषः साध्यते। भावमात्रविशेषणः कस्मिश्चिद् धर्मिणि अस्तीति साधने निर्दिष्टस्भावविशेषः क्वचित् सत्तामात्राप्रतिषेधात् । नेह सत्तासाधनप्रतिषेधः। किन्तु एवं क्वचिदस्तीति वचनेऽस्य विशेषमपरं क्वचित् 'अपरामृशन् स्वार्थ कथं पुष्णाति ? तस्मादनेन उपात्तमत एव साध्यं--
उपात्तभेदे साध्येऽस्मिन् भवेद्धतुरनन्वयः ॥१९१।।
साधयितुं शक्यते तस्यानन्वयात् । यथाऽहेत्याचार्य दि ग्ना गः। “अस्ति प्रधानमित्यनेन प्रधानस्वलक्षणमेव साध्यत" इति यत्सां ख्ये नोक्तं तत्प्रमाणस्यानुमानस्य विषयाज्ञानात् सामान्यविषयं हनुमानं स्वलक्षणविषयं। व्याहन्यते दुष्यति । किन्तर्हि (1) हेतावपि तुल्यदोषत्वात् । तदेवाह (1) न हि हेतुरित्यादि । न विद्यते ऽन्वयोस्येत्यनन्वयः सिद्धेः साध्यसाधनस्य नाङ्ग। कुत इत्यसाधारणाद्धेतोः । भावः सत्ता स (1) उपादानम्विशेषणं यस्य धर्मिणस्तन्मात्रे। तन्मात्रत्वादेव सामान्यरूपे धर्मिणि साध्ये। सां ख्य स्य न कश्चिदर्थः सिद्धः स्यात् । त्रैगुण्यादिलक्षण
स्यासिद्धेः। अनिषिद्धञ्च तादृशं। तादृशमिति सामान्यमानं। अनेन सिद्धसा128a ध्यतामाह।' (१६०-६१)
न सर्वथेत्यादिना व्याचष्टे। सत्तासाधन इति सत्तासिद्धौ। भावमात्रविशे-. षण इति सत्तामात्रविशेषणः। अनिर्दिष्टः स्वभावविशेषो यस्येति विग्रहः। नेहेति वस्तुमात्रसाधने। सत्तासाधनप्रतिषेधः। किन्तु स वादी तथा सामान्ये नास्ति कश्चिदिति कञ्चनास्य धर्मिणो भेदं विशेषं नित्यत्वादिकमपरामृशन्नसंस्पृशन् । अनेनेति वादिना। उपात्तभेद इत्युपात्तविशेषः । त्रिगुणात्मको नित्य इत्यादिनोपात्तभेदे साध्येस्मिन् प्रधानादिके धर्मिणि। भवेद्धतुरनन्वयः। नास्य साध्यधर्मविशेषणदृष्टान्तेन्वयोस्तीत्यनन्वयः । यत एवं (1)
सत्तायान्तेन साध्यायाम्विशेषः साधितो भवेत्।
अन्ये तु सत्तायामित्यादि पश्चाद् धर्मादौ व्याख्याय पूर्वार्द्धमुपात्तभेदमित्यादि पश्चाद् व्याचक्षते।