________________
३४६
५. शब्द-चिन्ता स्वभावाभिधायिन्यपि परोपाधिमाक्षिपति । एतेन प्रत्ययभेदभिन्नतादयो ब्याख्याताः। __ एवं उपाधिभेदं प्रत्यपेक्षः क्वचित् स्वभावहेतुरिति । क्वचिच्च प्रयोगेऽनपेक्ष उच्यते। यथाऽनित्य एव सत्त्वम्। क्वचित् स्वभावभूतधर्मभेदपरिग्रहद्वारेण, यथा तत्रैवोत्पत्तिः। अनया दिशा स्वभावहेतुविभागान्तरेष्वपि द्रष्टव्यः। .
सत्तास्वभावो हेतुश्चेन्न सत्ता साध्यते कथम् ॥१८९॥
अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोः। यदि सत्ताऽनित्त्यैव स्वभावहेतुभूता कस्मात् न साधयितु'मिष्टा। 475b तत् तथा प्रधानेन विशषीभवति न च विशेषः साधयितुं शक्यते, तस्यानन्व
एवन्तेनेयं कृतकश्रुतिः स्वभावाभिधायिन्यपि सती परोपाधिमत्यन्तविशेषणमेन स्वभावमाक्षिपति। एतेनेति कृतकत्वस्योपाधिभेदापेक्षत्वप्रतिपादनेन। प्रत्ययानां कारणनाम्भेदस्तेन भेत्तुं शीलं यस्य स तथोक्तस्तद्भावस्तत्त्वं। स्थानकरणादिभेदाद् भिद्यते शब्दः । आदिशब्दात् प्रयत्नानन्तरीयकत्वादयो व्याख्याताः। ___ एवमित्यादिनोपसंहारः। क्वचित् प्रयोगे उपाधिभेदंप्रत्यनपेक्षः। अतएवाह। सामान्येन अनित्य एव साध्ये यथा सत्त्वं। स्वभावभूतश्चासौ धर्मश्च तस्य परिग्रहेण2 क्वचित्स्वभावो हेतुरुच्यते इति प्रकृतं । यथा तत्रैवेत्यनित्यत्वे साध्य उत्पत्तिः। न चोत्पत्तिरुत्पत्तिमतोन्याभावस्याजन्यत्वेनोत्पत्त्यभावप्रसङ्गात् । केवलमर्थान्तरभूतेवकल्पिताविशेषणत्वेन तेनोत्पत्तेरिन्युत्पत्तिमत्वादित्यर्थः। अयमु- . पाध्यपेक्ष एव स्वभावो द्रष्टव्यः। कृतकत्वादौ परभूत उपाधिरहितत्वात्मभूत एव धर्मविशेष इत्येतावान् विशेषः ।
अनया दिशेति। उपाध्यपेक्षानपेक्षहेतुप्रविभागदिशा। (१८६)
यदि सत्ताख्यः स्वभावो हेतुः सत्त्वमिति यावत् । प्रधानादिसत्ता कथं न साध्यते। अथ सत्ता सामान्ये साध्ये सिद्धसाध्यता स्यादतः सत्ताविशेषस्साध्यस्तस्मिश्च साध्ये विशेषस्यानन्वयात् साध्यशून्यो दृष्टान्तः स्यादतो न सत्ता साध्यते । तदा हेतावपि सत्त्वे विशेषस्यानन्वयात् साधनशून्यो दृष्टान्तः स्यात् । तदाह (1) अनन्वयो हीत्यादि। भेदानाम्विशेषाणां व्याहतो दुष्टो हेतुसाध्ययोः। हेतौ साध्ये चेत्यर्थः। अन्यत्र चेत्यनात्मादौ। तदिति सत्त्वं । किलशब्दोनभिमतार्थ एव प्रसाध्यमानमिति। (१८६-६०)
अस्ति प्रधानमित्यादिना प्रधानलक्षणयोगेन विशेषीभवति न च विशेषः