________________
३४८ प्रमाणवार्तिकस्ववृत्तिटीका (१।१८६) वेष्विव बुद्धौ प्रतिभात्सु विवेकेषु चोपस्थापनात् भेदविषया एव।
तेन स्वभावस्यैव साध्यसाधनभावेऽपि न साध्य साधनयोः संसर्गः। ततश्च प्रतिज्ञार्थंकदेशो हेतुः स्यादिति । तन्न। स चायं हेतावेवोक्तः--
उपाधिभेदापेक्षो वा स्वभावः केवलोऽथवा ॥१८८॥
उच्यते साध्यसिद्ध्यर्थ नाशे कार्यत्वसत्त्ववत् । . स्वभावनिष्पत्तौ अपेक्षितपरव्यापारभावो हि कृतकः । तेनेयं कृतकश्रुतिः
त्वादीनां विवेकिंना भेदाः परस्परं विशेषाः। तै दैभिन्नेष्विव विकल्पबुद्धौ प्रतिभात्सु प्रतिभासमानेषु धर्मिषु। तेषां शब्दानाम्बिवेकेष भेदेषु विकल्पानां चोपस्थापनात् । यथाक्रमं वाचकत्वेन ग्राहकत्वेन चोपश्लेषात्।
ननु च कृतकानित्यत्वयोर्जेवावधिभेदोस्त्यकृतकस्येव नित्यरूपत्वात् ।' ततश्च प्रतिज्ञार्थंकदेश एव हेतुः। __नैष दोषो यस्मादकृतकस्यापि प्राग्भावस्यानित्यत्वात् । कृतकस्यापि प्रध्वंसाभावस्य नित्यत्वादस्त्येवावधिभेदः। यद्वा कारणेन कृतः शब्दो न भवतीत्यस्य समारोपस्य व्यवच्छेदेन कृतको द्वितीयादिक्षणे स्थायित्वसमारोपव्यवच्छेदेनानित्य इत्युच्यत इत्यस्त्येवावधिभेदः। तेनेति यथोक्ते न व्यावृत्तिभेदेन स्वभावहेतौ स्वभावस्यैव साध्यसाधनभावेपि न साध्यासाधनयोः संसर्ग एकत्वं । ततश्च यदुक्तं स्वभावे साध्ये प्रतिज्ञार्थंकदेशो हेतुः स्यादिति स दोषो नास्तीत्याह।
तन्नेति (1) तदिति तस्मात् । स चायं स्वभाव इति सम्बन्धः। स्वभाव इत्यव्यतिरिक्तो धर्मः। स कदाचित् सत्त्वमन्यो वा। यद्यपि कृतके सत्त्वमस्ति सत्सु च कृतकत्वन्तथापि हेतुकृतोयं स्वभाव इत्येतावन्मात्रविवाक्षायां कृतको हेतुरुच्यते। न तु सामर्थ्यविवक्षायां। प्रमेयत्वादिवत् । सामर्थ्यमस्त्येतावन्मात्रविवक्षायाञ्च सत्त्वं हेतुरुच्यते तेन तु हेतुकृतत्वविवक्षायां। (१८७-८८)
तेन यदुच्यते (1) "कृतके सत्त्वं विद्यते न च तस्यानित्यत्वे व्यभिचारोस्ति (1) तत्किमित्युपाधिभेदेन विशेष्यत" इति तदपास्तं । कृतकत्वादौ सामर्थ्यस्याविवक्षितत्वादिति। हेतुत्वेनापदिश्यमान उच्यमानः। उपाधिभेदापेक्षो विशेषणभेदापेक्षः। केवलो वेत्युपाध्यनपेक्षः। साध्यसिद्धचर्थमुच्यते। अनित्यत्वे साध्ये
कृतकत्वमुपाधिभेदापेक्षन्तदनपेक्षन्तु सत्त्वं। अपेक्षितेत्यादिनोपाधिभेदापेक्षत्वं कृत127b कत्वस्याह। परस्याहेत्वभिमतस्य जनन शक्तिरेव व्यापारः। अन्वयव्यतिरेकानु
विधानमेव चापेक्षा। स्वभावनिष्पत्तौ स्वभावनिष्पत्तिनिमित्तमपेक्षितः परव्यापारो येन भावेन स कृतकः। संज्ञायां कनो विधानात् संज्ञाशब्दोयं कृतक इति। यत