SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ५ शब्द-चिन्ता ३४७ तभावादसम्भवः। रूपाभावादभावस्य शब्दा रूपाभिधायिनः॥१८७॥ नाशंक्या एव सिद्धास्ते व्यवच्छेदस्य वाचकाः । शब्दानां वस्तुव्यापारेषु किं रूपमभिधेयमाहोस्विद् भेद इति शङ्का स्यात्, प्रभावस्तु विवेकलक्षण एव। निनिमित्तीकर्तव्यस्य कस्यचिद् रूपस्य प्रभावात्, तद्भावेऽभावायोगाद् वा भावस्य तल्लक्षणत्वाद् वा। तेन तस्मिन्नेव वस्तुनि विवेकः। ते हि तथाभावख्यापिनः शब्दाः किं विवेकविषयतया अप्रतिशरणा इत्याशङ्का। तस्मात् सर्वे शब्दा विवेकविषया विकल्पाश्च 475a सिद्धाः। तेन एकवस्त्वनुसारिणोऽपि यथास्वं विशेषभेदैरुपकल्पिता विशेषैर्भ अत्रोत्तरमाहा चा र्यः। तत्रापीत्यादि। रूपाभावादिति स्वरूपाभावादभावस्य । रूपाभिधायिनः स्वभावग्राहकाः शब्दा नाशंक्या एव। यतस्ते शब्दा अभावविषया व्यवच्छेदस्यान्यापोहस्य वाचकाः सिद्धा एव। एतदुक्तम्भवति (।) अभावविषयाणां शब्दानां भावस्वरूपाग्राहकत्वादपोहविषयत्वन्तथा भावविषयाणामपि शब्दानाम्भावस्वरूपाग्राहकत्वादपोहविषयत्वमेव (1) केवलं केचिच्छब्दा भावाध्यवसायाद् भावविषयाः केचिदभावाध्यवसायादभावविषया उच्यन्ते। वस्तुनि वृत्तिापारो येषां शब्दानान्तेषां कि रूपमभिधेयं विधिरूपेण वस्तुग्राह्यमाहोस्विद् भेदोऽन्य व्यावृत्तः स्वभावोध्यवसीयत इति शङ्का स्यात् । अभावस्तु विवेकलक्षण इति स्वभावविरहलक्षणः कस्मानिमित्तीकर्तव्यस्य रूपस्य वस्तुस्वभावस्य । तद्भावे तस्य रूपस्य सत्तया ह्यभावायोगात् । तस्य रूपस्य भावस्तद्भावः स एव लक्षणं यस्य भावस्य स तथोक्तः । अयमेव स मुख्यो विवेकोन्यापोहः ।अन्यस्तु गवादिशब्दविषयो पोहनिमित्तत्वादपोह इत्यु- I27a पचरितः सर्वभावविरहलक्षणः । तस्य विवेकस्य तथाभावख्यापिन इति विवेकरूपाभिधायिनः ॥ विवेकविषया इत्यन्यापोहविषया विकल्पाश्च विवेकविषया इति सम्बन्धः । ते शब्दा विकल्पाश्च । एकं व्यावृत्तिसमाश्रयभूतम्वस्तु। प्रतिस (? श) रणमधिष्ठानं येषां शब्दानां विकल्पानाञ्च। ते तथोक्ताः। तथा ह्यकृतकव्यवच्छेदेन यदेव वस्तु कृतकशब्दस्य विकल्पस्य वाधिष्ठानन्तदेवानित्यानात्मादिशब्दानाम्बिकल्पानां च। ते तथाभूता अपि भिन्नविषया एवेति सम्बन्धः । कस्माद् यथास्वमित्यादि। या व्यावृत्तिर्यतो व्यवस्थाप्यते सा तस्या अवधिः । यथा कृतकाख्यस्य व्यवच्छेदस्याकृतकः। एवमनित्यत्वलक्षणस्य व्यवच्छेदस्य नित्य इत्यादि। तेषां यथास्वमवधीनां भेदास्तै दैरुपकल्पिता रचिता अनित्य
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy