SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३४६ प्रमाणवार्तिकस्ववृत्तिटीका ( १।१८७ ) . तस्मादभावेषु शब्दाः सन्ति । तेषु कथमभावभेद इति चेत् । तत्रापि -- नाभिधानं स्वरूपेण सम्बन्धस्य कथञ्चनेति । तस्मात् स्थितमेतद् विकल्पविषयोवश्यम्वाच्य इति । ततश्च यदि नास्ति सम्बन्ध इति मतिस्तदा तत्प्रभवोपि शब्दः प्रवर्त्तत एव । तथाचाभावविषयः शब्द आपतित एव । अथ माभूदयन्दोष इति सम्बन्धस्य नास्तीति बुद्ध्या विषयीकरणं नेष्यते । नेह घट इत्यत्र कस्य निषेधो ( 1 ) न तावद् देशादेस्तस्य सत्त्वात् ( 1 ) न सम्बन्धस्य 126b तद्भावस्याग्रहणादिति यत्किञ्चिदेतत् । अपि चाभावमभिधेयं यो ब्रूते तं ब्रुवाणं प्रति अयमभावानभिधानवादी अभावो न वाच्य इति प्रतिविदधन् प्रतिक्षिपन्नब्रुवाणः कथं प्रतिविदध्यात् । न ह्यभावशब्दमुच्चारयता अभावस्य वाच्यत्वं शक्यं प्रतिपादयितुं । अथेच्छत्यभावस्य वचनन्तदा वचने वास्याभावस्याभ्युपगम्यमाने कथमभावोनुक्तः ( 1 ) उक्त एव । अभावो न वाच्य इत्यनेनैवाभावशब्देन तस्योक्तेः । अथ परेणाभावस्य वाच्यत्वं यदुच्यते तदनुवादेन निषेधः क्रियते ( 1 ) नाभावो वाच्यस्तेनादोष इति चेत् । 1 • नन्वनुवादेपि किमभावस्य वाच्यता न भवति येनैवमुच्यते । तस्मादिष्टस्यैवाभावस्य वाच्यता । स्वभावो नैवास्ति तेनासत्त्वादवचनमभावस्येति चेदाह । अथाभावमेवेत्यादि । तेनेत्यभावस्यासत्त्वेन । 2 इदानीमित्यभावस्यासत्त्वे तदेवाभावो नास्तीति वचनं कथं । अभावो नास्तीत्यस्यैवाभावशब्दस्य प्रयोगो न स्यात् ( 1 ) कथञ्च न स्यादभावस्यैवानभ्युपगमात् । अभावो ह्यस्य वाच्यः स च नाभ्युपगम्यते । परपरिकल्पितस्याभावस्य प्रतिषेध इति चेदिष्टस्तावदभावविषयः शब्दः। तस्मात् कथंचिदभावव्यवहारं प्रवर्त्तयताऽवश्यमभावविषया ज्ञानशब्दा एष्टव्याः । यत्पुनरेतदुक्तम् (।) अर्थनिषेधे सत्यनर्थकशब्दाप्रयोगात् कारणान्निविषयस्य नत्रोप्रयोग इत्यत्रोत्तरम्वक्ष्यते । “अनादिवासनोद्भूतविकल्पपरिनिष्ठत" (१।२०७ ) इत्यादिना । तस्मादित्युपसंहारः । इयता च ग्रन्थेन यदुक्तन्तेष्ववश्यं शब्दप्रवृत्त्या भाव्यमिति तदेवाचार्येण समर्थितं । अत्र परः प्राह । यद्यभावेष्वपि शब्दास्सन्ति तेष्व भावेषु कथं स्वभावभेवः शब्दप्रवत्तिहेतुर्येनापोहविषयत्वमभावप्रतिपादकानां स्यात् ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy