SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ५. शब्द-चिन्ता यद्वा सेति सम्बन्धाभावप्रतीतिः। तदभाव इति सम्बन्धाभावे। प्रतीतौ वा तदभावस्य सम्बन्धाभावस्य। तादृशी सम्बन्धाभावप्रतीतिस्सा विद्यते यस्य पुंसः । तस्य यथाप्रतीतिमतः। तत्प्रभवास्सम्बन्धाभावप्रतीतिजन्मानस्सम्बन्धाभावविषयाः शब्दाः केन वार्यन्ते। विकल्पानाम्बि'षयः सम्बन्धाभावो न शब्दा- 126a नामिति चेदाह। स एव हीत्यादि। यो न वितर्काणाम्विषयः स एव न शब्दानाम्विषयः । विकल्पविषयस्त्ववश्यं शब्दविषय इत्यर्थः। ते चेत् प्रवृत्ता इति वितर्काः। ___ ननु पुरोवस्थिते नीलादौ नीलमित्यादिविकल्पः। स्वलक्षणविषयो न च स्वलक्षणं शब्दवाच्यमित्याह। न हीत्यादि। अवाच्यमर्थमिति स्वलक्षणं। विकल्पा धिकाराद् विकल्पबुद्धयो गृह्यन्ते। समीहन्त इत्यालम्बन्ते। सामान्याकारैव सदा विकल्पबुद्धिर्यापि सन्निहिते स्वलक्षणे। सविकल्पनिर्विकल्पयोस्तु यौगपद्यादभिमान एष मन्दमतीनां विकल्पः स्वलक्षणाकार इति (1) विचारितं चैतत्. प्रमाणविनिश्चये शास्त्रकारेणेति नेह प्रतन्यते। ननु यदि विकल्पबुद्ध्या विषयीकृतत्वात् सम्बन्धाभावो वाच्यः। एवन्तर्हि सम्बन्धोपि वाच्यः स्याद् विकल्पबुद्ध्या विषयीकृतत्वाद् (।) अथेष्यत एव । कथन्तह्याचार्य दिङ ना गे न तस्यावाच्यत्वमुक्तमित्याह । सम्बन्धस्येत्यादि । स्वेन रूपेणेति सम्बन्धरूपेण (1) सम्बन्धिनं सम्बन्ध इति परस्परापेक्षालक्षणम्भावमात्रमद्रव्यभूतः सम्बन्धस्य स्वभावः । तेन च रूपेण तस्याभिधायकः शब्दो नास्ति। सम्बन्धशब्दो हि तस्याभिधायक एष्टव्यः स च प्रयुक्तः कयोरित्याक्षिपति। तत्र राजपुरुषयोः सम्बन्ध इत्युच्यमाने राजपुरुषयोरित्यस्य व्यतिरेकस्य हेतुः सम्बन्धस्तदा स सम्बन्धः सम्बन्धिरूपेण प्रतीयते। तदाह। अभिधानेन सम्बन्धित्वेनेत्यादि। राजपुरुषयोः सम्बन्ध इत्यभिधाने राजपुरुषाभ्यां परस्परसापेक्षाभ्यां निष्कृष्टरूपस्यैव सम्बन्धस्य सम्बन्धित्वेन बुद्धावुपस्थानात् । यथाभिप्रायमप्रतीतः । राज्ञः पुरुष इति परस्परापेक्षालक्षणस्सम्बन्धो यथा ज्ञातुमिष्टस्तेन रूपेणाप्रतीतिः । तदिति तस्मादयं सम्बन्धः प्रतीयमानोपि सम्बन्धशब्दात्। यथोक्तविधिना सम्बधिरूप एवेति न सम्बन्धेनाभिधीयते । तस्मानाभाववत् सम्बन्धपि प्रसंग इति सम्बन्धाभावो यथा बळ्या विषयीक्रियत इति वाच्यः प्रसक्तो नैवं सम्बन्धेपि वाच्यत्वमित्यर्थः। सम्बन्धाभावो हि स्वेन रूपेण बुद्ध्या विषयीक्रियते। शब्देनापि तथैवाभिधीयते। सम्बन्धस्तू स्वरूपेण गृह्यते। नाप्यभिधीयते। सम्बन्धिरूपापन्नस्यैव विषयीकरणादभिधानाच्च। तथा चाह। असत्त्वभूतस्सम्बन्धो रूपन्तस्य न गृह्यते।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy