________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१८७ )
यस्य नञस्तस्याप्रयोगात् । इदमिह नास्तीत्यवश्यमिदमादिपदैर्विषयः प्रतिषेधस्यो - पस्थाप्योन्यथा किम्विषयोयं प्रतिषेध इत्येव स न ज्ञायते । एतच्च सर्व मुद्योतक रादीनाम्मतमुपन्यस्तं ।
सोपीत्या चार्यः । तत्रापीत्या चा र्यः । तत्रापीत्यादिदेशकालधर्मनिषेधेन देशादीनां निषेधः सत्त्वात् । आदिशब्दात् कालस्य परिग्रहः । व्यक्तिभेदाद् बहुवचनं । नार्थस्येति धर्मस्य । क्वचित् सत्त्वादेव । न त्वर्थशब्देन धर्मिणो निर्देशः । परेणापि धर्मनिषेधस्यानिष्टत्वात् ।
३४४
स्यादेतन्न देशादिनिषेधः क्रियते नाप्युष्णस्य निषेधः । किन्त्वनुष्णेन सहाग्नेर्यः सम्बन्धस्स निषिध्यते ।
त्वत्याद्याचार्य: । तन्निषेधेपीति सम्बन्धनिषेधेपि तुल्यो दोषः । धम्मिंवत् सम्बन्धस्याप्यनिषेधात् । तदेवास 2 स ( ? ) तीत्यादिना साधयति । असति सम्बन्धे शब्दाप्रवृत्तिः । आदिशब्दादनिर्दिष्टविषयस्य नञोऽप्रयोगात् । अथवा तुल्यो दोषः (1) कथं । निषेधादसति यो निषेधस्तस्य त्वयैव निषेधादिति व्याख्येयं । कथं निषेध इत्याह । असतीत्यादि । अंसतो वास्येति सम्बन्धस्य निषेधे । तद्वत् सम्बन्धवत् । धर्मिणोपि निषेधः ।
नेत्यादि परः । सम्बन्धो नास्तीत्येव स्वशब्देन न वै सम्बन्धस्य निषेधः ।
एतदुक्तम्भवति । यथा सम्बन्धस्य स्वशब्देन स्वरूपेणाभिधानन्नास्ति तथा निषेधेपि । तदेवाह । किन्तहि नेह प्रदेशे घटो ( 1 ) नेदानीं काल इत्येवं प्रतिषेधोक्तौ सत्यां । नानेन देशेन कालेन वास्य घटस्य सम्बन्धोस्तीति प्रतीतिः । तथा नैवन्नाऽनेन प्रकारेण घटोस्तीत्युक्तौ नैतद्धर्मा घट इति प्रतीतिः । तथेत्येवं प्रतीतौ सत्यां ।
तथापीत्या चार्यः । नेदानीमित्यादिनापि कथं सम्बन्धो निषिद्धो यावदस्य पुंसः सम्बन्धो धर्मो वा नास्तीति मतिर्भवति । नेह नेदानीमिति प्रतिषेधे सम्बन्धो नास्तीति मतिः । नैवमिति प्रतिषेधे धर्मो नास्तीति मतिः ।
ननु धर्मनिषेधोऽपि सम्बन्धनिषेध एव । धर्मधर्मिणोः सम्बन्धनिषेधात् । सत्त्यं। संयोगसम़वायलक्षणसम्बन्धभेदात्तु सम्बन्धो धर्मो वेति भेदेनोक्तं । न चास्यास्सम्बन्धो नास्तीति मतेः कथंचिद् भावे सम्बन्धादिसत्तायां सम्भवः । कस्मादभावेष्वित्यादि । तथाशब्दो यथाशब्दार्थमाक्षिपति । यत्तदोनित्याभिसम्बन्धात्। सत्सु देशादिषु यथा नास्तीति बुद्धेरभावः । सत्स्वभावबुद्धेविरोधात् । तद्वदभावेषु । असति बुद्धिप्रवृत्तेरनभ्युपगमात् । तस्मात् सम्बन्धाभावप्रतीतेः सकाशान्नायमिहेत्याद्या प्रतीति: । सा तदभावे सम्बन्धाभावप्रतीत्यभावे न स्यात्