________________
५. शब्द-चिन्ता
३४३ यत् पुनरर्थनिषेधेऽनर्थकशब्दाप्रयोगात् निविषयस्य नोऽप्रयोग इत्युत्तरं वक्ष्यते।
एवं यत्पुनरेतत् तदर्थ निषेधेऽनर्थकशब्दाप्रयोगात्। निविषयस्य नञोऽप्रयोग • इत्यत्रोत्तरम्वक्ष्यत इत्यादि ग्रन्थो वक्ष्यमाणश्चोदकाभिप्रायेणावाचकः स्यात्। . ___ तस्मादा चार्य एव निरुपाख्येषु शब्दप्रवृत्ति समर्थयते "तेष्ववश्यं शब्दप्रवृत्त्या भाव्यमित्या"दिना ग्रन्थेन । कस्मात् (1) कथंचिज्ज्ञानशब्दविषयत्वेनाव्यवस्थापितेषु निरुपाख्येषु सर्वत्रार्थे विधिप्रतिषेधे वा योगात्। यदि क्वचिदसत आकारस्य निषेधे ज्ञानाभिधाने स्यातां । तदा निषिद्धाकारपरिहृतेर्थे विधिः स्यात् । तथा चेति विधिप्रतिषेधाभावे। अन्वयव्यतिरेको विधिप्रतिषेधौ आश्रयो यस्य व्यवहारस्य स तथोक्तः । तमेव व्यवहारभावमुष्णेत्यादिनाऽह । उष्णस्वभावोग्निरित्यन्वयाश्रयो व्यवहारः। नानुष्ण इति व्यतिरेकाश्रयः । अयमप्यतिप्रसिद्धो लोकव्यवहारो न 'स्यादित्यपिशब्देनाह। उष्णव्यवस्था ह्यनुष्णव्यवच्छेदेन (।)
तस्य चानुष्णस्योष्णाभावलक्षणस्य कथञ्चिद् व्यवस्थानात् कथन्तद्वयवच्छेदेनोष्णं व्यवस्थाप्येत। तदाह। स्वभावान्तरेत्यादि। उष्णाभाव एवोष्णस्वभावादन्तरम्विलक्षणन्तद्विरहरूपेणेति स्वभावान्तरमुक्तं । अत एवासत इत्येतद् घटते। __ननु स्वभावविशेषः स्वभावान्त रन्तस्य कथंचिदपि विकल्पबुद्धेः शब्दस्य च विषयत्वेनाव्यवस्थापनात् । सर्वथानुष्णस्याप्रतिपत्तेरनिश्चयात् तद्वयवच्छेदलक्षणस्याग्निस्वभावस्याप्रतिपत्तिरनिश्चयः। यथाग्निस्वभावस्यैवं सर्वस्य पदार्थस्य । ततो व्यामूढमनिश्चितरूपं जगत् स्यात् ।
स्यादेतत् (1) न तत्र वहन्यादौ कस्यचिदसतो निषेधो येनाभावेप्यवश्यं प्रवृत्त्या भाव्यमिति चोद्यते। किन्त्वनुष्णं स्पर्शाख्यं सदेव वस्त्वेव। अग्नेश्चार्थान्तरं निषिध्यत इति।
कथमित्याद्या चा र्यः। सदेवेति वचनात् सत्त्वमिष्टं। निषिध्यत इति वचनादसत्त्वमेकं च कथं सदसन्नाम। नेत्यादिना परः परिहरति। तत्राग्नावनुष्णं नास्तीत्यनेन सर्वत्रानुष्णमसदिति ब्रूमः । एवं ह्यच्यमाने सत्त्वं प्रतिज्ञाय पुनः सर्वत्र सत्त्वनिषेधे सदसत्त्वमेकत्र प्रतिज्ञातम्भवेत्। केवलन्तत्र त्वग्नावनुष्णन्नास्तीति ब्रूमः । ततश्चान्यत्र सतोन्यत्रासत्त्वमविरुद्धं । अयमेव च देश ह (?) इत्याह । इह नास्तीति देशस्य निषेधः। इदानीन्नास्तीति कालस्य। अनेन प्रकारेण नास्तीति धर्मस्य । धर्मिणो निषेधः । कस्मात् (1) तन्निषेधे धर्मिणो निषेधे। तद्विषयस्य धर्मिविषयस्य शब्दस्य निविषयतया प्रवृत्त्यभावात्। ततश्च धर्मिशब्दाप्रवृत्तेरनिर्दिष्टो विषयो 125b