SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३४२ 125a प्रमाणवार्त्तिकस्ववृत्तिटीका ( १११८७ ) भेदसंहारवादस्य तदभावादसम्भवः । तदभावाद् सम्भवकल्पनेच्छा कथमिव तद्भावी शब्दो येन प्रत्याख्यायेत । 474b वि ' कल्पानां योऽविषयः, न हि स एव शब्दः । तैषु शब्दप्रवृत्तिः केन बाध्येत ? (१) आप्तशब्दचिन्ता अवाच्योऽर्थो न बुद्धयुपलब्धः । सम्बन्धस्यापि स्वरूपेणानभिधा 'नमुक्तम् । अभिधाने हि सम्बन्धित्वेन बुद्धघुपस्थानात् यथाभिप्रायमप्रतीतः । तत् प्रतीयमानोऽपि सम्बन्धिरूप एवेति स्वस्वरूपेण नाभिधीयते । तस्मा2नाभाववत् सम्बन्धेऽपि प्रसंग : * । अपि च । श्रभावाभिधेयवादिनं प्रति प्रतिविदधन् प्रब्रुवाणः कथं प्रतिविद - ध्यात् ? अत्रापि शब्दे कथमभावोऽनुक्तः ? श्रथाभावमेव नेच्छति तेनावचनम् । तदेवाभावो नास्तीति कथम् ? विभागाभावाद् भावानामिति । तत्संहारवाद इति भेदसंहारवादो न स्यात् ( 1 ) स्यादुष्ट्रः स्याद् दधीत्यादिकः । अथ पुनरसंसृष्टौ दध्युष्ट्रौ प्रतिपद्य संहरेत् । स्यादुष्ट्रः स्याद् दधीति । तदाप्येकरूपसंसगिण्या। उष्ट्ररूपेणैव दधिरूपेणैव वा संसर्गिण्या बुद्धेरसंसृष्टाकारग्राहिया क्वचिदुष्ट्रे दधनि च । प्रतिनियमात् तत्प्रतिभासभेदकृत एव तयोर्दध्युष्ट्रयोः स्वभावभेदोपि । एकानेकेत्यादि । प्रतिभासभेदस्यानेकव्यवस्थितिर्विषयः । . एकव्यवस्थितिः प्रतिभासभेदस्येति योज्यं । भिन्नप्रतिभासविषयौ च दध्युष्ट्रो तथा च सति नैक उष्ट्रो दधि वा तदुभयरूपः तदुभयन्दध्युष्ट्रात्मकं रूपं यस्येति विग्रहः । मिथ्यावाद एव स्या द्वा द: ।। ०।। (१८६-८७) भेदलक्षणमिति व्यावृत्तिलक्षणम्विजातीयव्यावृत्तान्येव स्वलक्षणानि सामान्यमित्युच्यते । प्रकृत्या स्वभावेन । आदिशब्दादुदकाद्याहरणाद्येकफलाः । भवतु नामेत्यादिना चा चार्यः पराभिप्रायमाशंकते । भावानाम्वस्तूनां स्वभावभेदः स्वभावे नैवान्यस्माद् व्यावृत्तिः । तत्रेति निरुपाख्येषु ( 1 ) कथं स्वभावभेदविषया व्यावृत्तिविषयाः शब्दाः । ननु निरुपाख्येषु शब्दानां प्रवृत्तिरेव नास्ति तत्किमर्थमिदमाशंकितमि ति कदाचित् परो ब्रूते । तन्निराकरणार्थमाचार्यः प्राह । तेष्ववश्यं शब्दप्रवृत्या भाव्यं । ये तु न चान्यापोहवादिना शक्यम्वक्तुन्नैव निरुपाख्येषु शब्दानां प्रवृत्तिरिति । यतस्तेष्ववश्यं शब्दप्रवृत्त्या भाव्यमिति चोदको 'ब्रूत इति व्याचक्षते । तेषामनेन क्रमेण देशकालनिषेध एव सर्वभावेषु क्रियते । तथा सम्बन्धस्य स्वरूपणानभिधानमुक्तं । *Bam.po drug.pa = षष्ठमाह्निकम् ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy