________________
५. शब्द-चिन्ता
३४१
स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् । अथानयोरस्ति कश्चिदतिशय: यदत्र तथा चोदितः क्षीरविकारे दन्येव प्रवर्त्तते नान्यत्र। अतिशयोऽर्थक्रियार्थिप्रवृत्तिविषयः, स एव तत्फलविशिष्टोपादान भावेन लक्षितस्वभावो हि दधिस्वभावत्वात्। तादृशस्वभावः स च नान्यत्र, अर्थिनः प्रवृत्त्यभावात्।
तस्मात् तत्र उभयस्वभावाभाव इत्येकान्तवादः। अपि च
५-शब्द-चिन्ता सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥१८६।।
लक्षणभेदाद भेदो यदीष्यते तदा स एव स्वरूपातिशयो दधि। स चान्यत्रोष्टे 124b नास्ति। नापि द्रव्यत्वं दध्यादिव्यतिरिक्तं प्रतिभासते। इत्यनेन द्वारेणानभयं सामान्यविशेषरहितं सर्वम्वस्तु। परं केवलं। एकत्वन्तु कल्पितं। अनयोरिति दध्यष्ट्रयोः। तथा चोदित इति दधि खादेति चोदितः। क्षीरविकारो दधि । नान्यत्रेत्युष्ट्र। स एवातिशयो दधि। किम्भूतः (1) अर्थक्रियाथिप्रवृत्तिविषयः । दधिसाध्यार्थक्रिया तया योर्थी पुरुषस्तस्य प्रवृत्तिविषयः (1) किङ्कारणं (1) तत्फलेत्यादि। दधिसाध्यं फलं तदेव विशिष्यतेन्यस्मादिति विशेषः। तस्योपादानभावो हेतुभावस्तेन लक्षितः स्वभावो यस्य वस्तुनः। तदेव दधीति कृत्वा । स च तादृश इत्यनन्तरोक्तो दधिस्वभावः। अन्यत्रेत्युष्ट्रे। कस्माद् (1) दथिनस्तत्रोष्ट्र प्रवृत्त्यभावात्। (१८५-८६)
सर्वात्मत्व इत्येकरूपत्वे सतीत्यर्थः। भिन्नौ नियताएँ। धीध्वनी। ज्ञानं शब्दश्च। तदभावाद् भिन्नबुद्धिशब्दाभावात् । भेदानां संहारवादस्य । एकीकरणवादस्यासम्भवः। भेदेन गृहीतयोः श्रुतयोर्वा । एकत्वेनोपसंहारो निर्देशः। स्यादष्ट्रो दधीत्यादि।
सोयमित्यादिना व्याचष्टे। क्वचिदपि दध्न्युष्ट्र वा प्रतिनियतमेकमाकारमपश्यन् कथं बुद्ध्याधिमुच्येतार्थानिति सम्बन्धः। किम्विशिष्टया बुद्ध्येत्याह। असंसृष्टेत्यादि। असंसृष्टोन्याकारो यस्मिन्नर्थे स तथोक्तः। स यस्या बुद्धरस्ति सा संसृष्टान्याकारवती। विभक्तार्थग्राहिण्येवेति यावत्। अभिलपेद्वा कथं । प्रत्यर्थं प्रति (नि)यतसंकेतेन ध्वनिनेत्याकूतं। कस्मान्नाधिमुच्येतेत्याह।