________________
३४०
__ प्रमाणवार्तिकस्ववृत्तिटीका (१।१८५) सर्वस्योभयरूपत्वे तद्विशेषनिराकृतः ॥१८४॥
चोदितो दधि खादेति किमुष्टन्नाभिधावति। . एवं उष्ट्रोऽपि स्याद् दधि। नापि स एव उष्ट्रः, येनाऽन्योऽपि स्यादुष्ट्रः, तथा दध्यपि स्यादुष्टः। नापि तदेव दधि, येनान्यत् स्याद् दधि। .
तदनयोरेकस्यापि वा कस्यचित् तद्रूपाभावस्य चाभावात्, अतद्भाविनो वा स्वानियतस्य चाभावात् । कस्यचिद् विशेषस्यभावेन दधि खादेति चोक्त उष्ट्रमेव भुजीत। - प्रथास्त्यतिशयः कश्चिद्येन भेदेन वर्त्तते ॥१८५।।
एतदुक्तम्भवति। यदावस्थातद्वतोस्सर्वात्मनाऽभेदोवस्थानात्तु परस्परम्भेदस्त: दायन्दोषस्तदाह। तवन्वये वेति। तस्य स्वभावभेदस्य परस्परान्वये वा। दध्यादिस्वभावस्य द्रव्यस्योष्ट्रादिषु तादात्म्येनानुगमादिति यावत्।
सर्वस्यो भयरूपत्वं। उभयग्रहणमनेकत्वोपलक्षणार्थन्तस्मिन् सति तद्विशषस्य उष्ट्र उष्ट्र एव न दधि। दधि दध्येव नोष्ट्र इत्येवं लक्षणस्य निराकृतेः । दधि खादेत्येवं चोदितः पुरुषः किमुष्ट खादितुं नाभिधावति । उष्ट्रोपि दध्यभिन्नाद् द्रव्यत्वाद् अव्यतिरेकात् स्याद् दधि। नापि स एवेति। उष्ट्र एवोष्ट्र इत्येकान्तवादः । येनान्योपि दध्यादिकः स्यादुष्टः तथा दध्यपि स्यादुष्टः । उष्ट्राभिन्नेन द्रव्यत्वेन दध्नस्तादात्म्येनाभिसम्बन्धात्। नापि तदेवेति दध्येव दधि। येनान्यदप्युष्ट्रादिकं स्याद् दधि। एतेन सर्वस्योभयरूपत्वं व्याख्यातं।
तद्विशेषनिराकृतरित्येतदनयोरित्यादिना व्याचष्टे । उभयथापि दध्युष्ट्रविशेषः स्यात्। दधिरूपाभावो वोष्ट्रे स्यात्। उष्ट्ररूपं वा दध्यसम्भवि याष्ट्रस्वरूप एव नियतम्भवेत्। एवं दध्नोपि वाच्यं ।
आद्यस्य तावदसम्भवस्तदित्यादिना कथ्यते। तदेवममेकयोर्दध्युष्ट्रयोर्न कश्चिद् विशेष इति सम्बन्धः । एकस्यापीति दध्न उष्ट्रस्य वा कस्यचित् तद्रूपाभावस्येति। उष्ट्ररूपाभावस्य दधिरूपाभावस्य चाभावात्।
द्वितीयस्यापि प्रकाराभावमाह। स्वरूपस्येत्यापि। अतभाविनो दध्यभाविन उष्ट्रस्वरूपस्य। उष्ट्राभाविनो वा दधिस्वरूपस्य। स्वनियतस्य उष्ट्रस्वभावनियतस्य। दधिस्वभावनियतस्य चाभावात् (१८४-८५)
अथास्ति दध्युष्ट्रयोरतिशयः कश्चिद् येनातिशयेन दधि खादेति चोदितः पुरुषो भेदेन वर्तते। उष्ट्रपरिहारेण दध्न्येव प्रवर्तत्ते।
एतदुक्तम्भवति। यथा दध्यष्ट्रयोः परस्परं स्वरुपम्भिन्नन्तथा द्रव्यपर्याययो