________________
४. सामान्यचिन्ता
ग. जैनमतनिरास:
'एतेनैव यदीकाः किमप्यश्लील माकुलम् ॥ १८३॥ प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ।
३३६
दिगंवराणां इदं च किमप्ययुक्तं अश्लीलमहेयोपोदेयमपरिनिष्ठानात् श्राकुले “स्यादुष्ट्रो दधि न स्यादिति यैरुक्तं तेऽपि एतेनैव प्रक्षिप्ताः । भावेनैव 474a
एकान्तभेदात् ।
तदन्वये वा
तत्स्वभावत्वात्तदर्थ क्रियाकरणस्वभावत्वादेव करोति । तदन्यस्यापि तस्माद् गोद्रब्यादन्यस्याप्यश्वस्य तद्वाहदोहादिकरणस्वभावत्वन्तुल्यमिति सोप्यश्वः गोसाध्यामर्थक्रियां किन्न करोति ॥०॥ ( १८२-८३ )
एतेनैवेति सर्वस्यार्थस्य भेदसाधनेन । अहीका नंग्नतया निर्लज्जाः क्षपणकाः । अयुक्ताभिधानस्य कुत्सितत्वात् किमपीत्याह । अश्लीलङ्ग्राम्यं । सर्वः सर्वस्वभावो न च सर्वः सर्वस्वभाव इति यत् प्रलपन्ति प्रतिक्षिप्तन्तदपि तस्मादेकान्तसम्भवात् । एकस्यैवान्तस्यात्यन्तभेदप्रकारस्य सम्भवात् । ( १८३-८४)
ननु दिगम्व राणां सर्वं सर्वात्मकं न सर्वं सर्वात्मकमिति नैतद्दर्शनन्तत्किमर्थंमिदमा चा ये णो च्यते ।
सत्त्यं (1) यथा दर्शनन्त्व "त्यन्तभेदाभेदौ च स्यातामि" । " (१।१७८) त्यादिना पूर्वमेव दूषितं ।
यत्पुरनरेतदुक्तं ? (1) तद्यथा कटकेयूरादिषु सुवर्णप्रत्ययस्यानुयायिनस्सद्भा- 1242 वास्सुवर्णत्वसामान्यं कल्प्यते । तथा घटपटादिषु द्रव्यत्वादिप्रत्ययस्यान्वयिनः सद्भावाद् द्रव्यत्वसामान्यमेकं किन्नेष्यते । न चेष्यतेऽभिन्नप्रत्ययसद्भावेपि तथा कटककेयूरादिषु सामान्यकल्पना माभूदित्येवम्परमेतत् ।
स्याष्ट्रो दधि । द्रव्यादिरूपतयैकत्वात् । स्यान्न दधि उष्ट्रावस्थातो दध्यवस्था-या भिन्नत्वात्। अश्लीलमित्यस्य व्याख्यानमयुक्तमिति । तस्यायुक्तत्वात् । विद्वज्जनायोग्यतया ग्राम्यमिति भावः । अश्लीलमित्यस्य ग्राम्यपर्यायत्वात् । अहेयोपादेयमिति । अत्याज्यमग्राह्यञ्च । कस्मादपरिनिष्ठानात् । यदि हि किंचित्सुखसाधनत्वेन निश्चितमन्यच्च दुःखसाधनत्वेन तदा यथाक्रमं हेयमुपादेयं वा स्यात् । तच्च नास्ति यतः सर्वस्य सर्वस्वभावत्वं ( 1 ) न च सर्वस्य सर्वस्वभावत्वं । अत एवाकुलमेकस्यापि स्वभावभेदस्य गृहीतुमशक्यत्वात् ।