________________
३३८ प्रमाणवात्तिकस्ववृत्तिटीका (१।१८३) तद्वचनं तदा प्राप्तुमनभिप्रेतत्वात्, गवादिसमावेशात्, तदात्मभूतानां अननुगमात्मतया तत्रानुभयरूपत्वात्।
तमेव भावं तत्रैव च प्रकारः पर्यनुयुंक्ते। तस्य भेदेऽपि द्रव्यत्वाद्यभेदोऽस्याबाधक एव । सर्वत्र व्यावृत्तिलक्षणस्य च सामान्यस्य स्वभावभेदाभ्युपगमात् ।
. स्वभावभूतस्य सामान्यस्याभेद इत्युक्तम् । स्वात्मनैवाभेदे तन्निबन्धनक्रियार्थी समं द्वयोरपि प्रवर्तेत, एकोऽपि तद्भावत्वात् । तस्य हि अर्थक्रियाकारित्वे तदन्यस्यापि तत् तुल्यमिति सोऽपि किन्न करोति ?
123b प्रवृत्तिकाले। प्राप्तुमनभिप्रेतत्वाद् द्रव्यत्वादिसामान्यस्येति। विभक्तिविप
रिणामेन सम्बन्धः। कस्मात् पुनर्गवा दशब्देन द्रव्यत्वादिसामान्यं चोदयितुं नाभिप्रेतमित्याह। गवादिसमावेशाद गवादिशब्दस्य गवादौ लोके संकेतितत्वात । गवादिस्वभावत्वाद् द्रव्यत्वादिसामान्यस्य गवादिचोदनयाऽभिधानमिति चेदाह। तदात्मभूतानां चेति। गवादिस्वभावानां द्रव्यत्वादिसामान्यानां गवादिवदेवानन्वयेन हेतूना। तत्रेति तस्य गवादिभेदस्य। अनभयरूपत्वादसामान्यविशेषरूपत्वादेवेति यावत् । ततश्च विशेष एव चोद्यते।
तदेवाह। तमेवेत्यादि। तमेव चानन्यसाधारणम्भावमर्थक्रियार्थी पुरुषो भेदाभेदप्रकारैः पर्यनुयुङ्क्ते। अन्या पो ह वा दि नोपि व्यावृत्तिलक्षणो द्रव्यत्वाद्यभेद: स्वलक्षणानामिष्टस्ततोऽत्यन्तभेदो विशेषाणां विरुद्ध इत्यत आह । तस्येत्यादि। तस्यार्थक्रियाकारिणोर्थस्य भेदे प्रकृत्या स्थिते सति व्यावृत्तिलक्षणो द्रव्यत्वाद्यभेदोस्य विशेषस्याबाषक एव । तस्य कल्पितत्वात्। तस्मात् पारमाथिको भेदः। स्वलक्षणानामुपकल्पितमेकत्वमनेन च प्रकारेण भेदाभेदाविशिष्टावस्माकं (1) तदेव दर्शयन्नाह। सर्वत्रेत्यादि। स्वभावेन भेदः स्वजातीयविजातीयात् । सामान्यस्य च व्यावृत्तिलक्षणस्याभ्युपगमादिति सम्बन्धः ।
न व्यावृत्तिरूपेण सामान्येनाभेद: किन्तु वस्तुभूतेनैवेति चेदाह। स्वभावभूतस्येत्यादि। वस्तुभूतस्य सामान्यस्याभेद इति व्यक्तिभ्योनान्तरत्वे। उक्तमिति सामान्यादव्यतिरेकाद् भेदानामैक्यं। भेदवदेव वा सामान्यस्याप्यनेकत्वमित्युक्तं प्राक् । न सामान्यद्वारेण भेदानामैक्यमित्युच्यते। किन्तु योसौ विशेष-- स्तेनैवाभेद इत्याह। स्वात्मनैवेत्यांदि। स्वेनैव विशेषरूपेण गवारवादीनामभेदे तद् गोद्रव्यं निबन्धनं यस्या अर्थक्रियाया वाहदोहादिलक्षणायास्तयार्थी पुरुषः (1) सममित्युभयत्राप्यवसितगवादिभावः । द्वयोरपीति गवि चाश्वे चैव। यस्मादेकोपि हि कारणत्वेनाभिमतो गोपदार्थस्तामर्थक्रियाम्वाहदोहादिस्वभावां।