________________
४. सामान्यचिन्ता
३३७
पृथगभिधानात् । श्रर्थस्य हि तेनाऽव्यभिचारात् ततः 7 कल्पनात् । निर्लोठितं 473b चैतदाचार्येण ।
तद् गवादिशब्दप्रत्युपस्थापितमर्थं भिन्नमभिन्नं वा पृच्छन् अर्थान्तरस्य उपन्यासेन तंत्रद्विधा बुद्धिः कुतः क्रियते । तस्माद् यस्यात्मा' ऽनन्यसाधारणः तं पुरस्कृत्य विशिष्टार्थक्रियार्थी पुरुषोऽयं प्रवर्त्तते । यथा गोर्वाहदोहादौ नात्यसम्भाविन्यर्थ । यथा युद्ध' प्रवेशे यथास्वं शब्देनोच्यते, न द्रव्यत्वादि सामान्यम् ।
पद्यते। ततो व्यवहर्तॄणामध्यवसायवशा च्छन्दव्यापारापेक्षयैतदुक्तं । शब्दे तु ज्ञान स्वलक्षणप्रतिभासो नास्तीति स्वलक्षणमवाच्य मुक्तमित्यदोषः ।
द्रव्यादयस्तु न तत्रेति । गौरित्यादिशब्दैर्गवादिचोदनायां । कस्मात् यथास्वं द्रव्यत्वादिशब्दैस्तेषाङ्ग' वादेः पृथगभिधानात् गोद्रव्यमित्यादिना । कथन्तर्हि गौरित्यादिपदप्रयोगे सत्ताद्रव्यत्वादयः प्रतीयन्त इत्याह । अर्थस्येत्यादि । अर्थस्य गवादेः । तेन सत्त्वद्रव्यत्वादिनाऽव्यभिचारात् । ततोर्थाद् गतिः सामान्यानां स्यात् । न तु विशेषशब्दः सामान्ये व्याप्रियते । निर्लोठितं चैतदाचार्य दिङ्नागे न सामान्य परीक्षा दौ यथा न विशेषशब्दानां सामान्ये वृत्तिरिति ।
अत्र नोद्यते । कस्य पुनः सामान्यस्य विशेषेणाव्यभिचारः । यत्तावत् परपरिकल्पितन्नास्त्येव । यच्चान्यव्यावृत्तिलक्षणं प्रसज्य मात्रन्तदपि नास्त्येव । नापि विकल्पबुद्धिप्रतिभासिनो बाह्येनाव्यभिचारोस्ति तस्य स्वतन्त्रत्वात् ।
उच्यते। स्वलक्षणमेव सजातीयव्यावृत्तम्विशेषः । तदेव विजातीयव्यावृत्तिमपेक्ष्याभेदे ैनोपात्तं सामान्यमित्युच्यते । ततः सामान्यविशेषयोर्वस्तुत एकत्वात् । कृतकत्वानित्यत्वयोरिवाव्यभिचारः । शब्दव्यापारभेदात्तु केवलं क्वचिच्छाब्दी प्रतिपत्तिः क्वचिदार्थीत्युच्यते । तदिति तस्मादयं पुरुषः । गवादिशब्दप्रत्युपस्थापितङ् गवादिशब्दसन्निधापितमर्थमर्थक्रियाश्रयं । अर्थान्तरस्य सामान्यस्योपन्यासेन भेदसामान्याकारतया द्विमुखा बुद्धिर्यस्य स तथोक्तः । योस्य गवादेरात्मा स्वभावः । अनन्यभावसाधारणस्स एव स्वभावः शब्दचोदित इति वक्ष्यमाणेन सम्बन्धः । यमर्थं सास्नादिमन्तं पुरस्कृत्यालम्बनीकृत्य विशिष्टार्थक्रियार्थी । तमेवाह । यथेत्यादि । यथा गोर्वाहदोहादावर्थी गामधिकृत्य प्रवर्त्तते । अन्यसम्भविन इति गोरन्यस्मिन्नश्वे सम्भविनोर्थस्यार्थी गां पुरस्कृत्य न प्रवर्त्तत इति वाक्यार्थः समर्थनीयः । कोर्थोन्यसम्भवीत्याह । यथा युद्धप्रवेश इति । यथास्वमिति यस्य यः शब्दो वाचकः । न द्रव्यत्वादि सामान्यं । चोदितमिति लिङ्गविपरिणामेन सम्बन्धः । तच्चोदनया गवादीनां गवादिशब्दैश्चोदनया । तदेत्यर्थक्रियार्थिनः
४३