________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१८३) यमात्मानं पुरस्कृत्य पुरुषोयं प्रवर्तते ॥१८॥ तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयो । चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता ॥१८२॥
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः । . गौरश्वाद् भिन्नोऽभिन्नो वेति व्यतिरेकाव्यतिरेकप्रश्नकरणम्। सर्व एव व्यतिरेको वस्तुनः स्वभाव इति अधिकृत्य प्रवर्तते ।
स एव हि तत्र वचनमिति वाच्यम् । न ह्येतेन द्रव्यत्वादिवचनम् । यथात्मवत्
एवमूर्ध्वसामान्यवादं दि ग म्व रा द्यभिम तं। तिर्यक्सामान्यवादञ्च सां ख्या द्यभिमतं साधारणदूषणेन निराकृत्य पुनस्तिर्यक्सामान्यवादमेव दूषयितुमाह। अपि चेत्यादि। ___ एतदुक्तम्भवति (1) अर्थक्रियार्थिनः सामान्यविषयभेदाभेदचिन्तया न किञ्चित् प्रयोजनमर्थक्रियारहितत्वात्। किन्तु। यमात्मानमर्थक्रियायोग्यं पुरस्कृत्यालम्बनीकृत्य। तत्साध्यफलवाञ्छावान्। तेनात्मना यत्साध्यम्फलन्तदभिलाषावान्। अयं पुरुषः प्रवर्त्तते । तदाश्रयावर्थक्रियासमर्थाधिष्ठानौ भेदाभेदौ चित्येते। तस्य चार्थक्रियायोग्यस्य स्वात्मना स्वेन रूपेण भेद आत्यन्तिकोस्त्येव। व्यावृत्त्या च विजातीयव्यावृत्तेन रूपेण समानतास्त्येवाध्यवसितैकत्वरूपया। इयतैवार्थक्रियार्थिनो भेदाभेदचिन्ता समाप्ता। ततोनर्थक्रियाकारिणः सामान्यस्य किं स्वलक्षणे भेदाभेदचिन्तयेति। (१८१-८२)
ननु चार्थक्रियार्थिनः पुरुषस्य व्यावृत्त्यापि समानतायाः किम्प्रयोजनमर्थक्रियारहितत्वात्। __ सत्त्यं (1) स्वलक्षणान्येव व्यावृत्त्या सामान्यमुच्यते शब्दात्तत्रैकत्वाध्यवसायेन प्रवृत्तिर्यथास्यादित्यदोषः ।
अथ स्यात् स्वलक्षणमेव स्वलक्षणान्तरानुयायीति किं परिकल्पितया व्यावृ123a त्येत्याह। स्वलक्षणानाम्परस्परम्भेदात। यदि घटरूपम्पटे स्यादुदकाहरणार्थी
पटेपि प्रवर्तेत। तदाह। प्रवृत्त्यादीत्यादि। आदिशब्दात् तुल्योत्पत्तिनिरोधादिप्रसङ्गः। ___ सर्व एवेत्यादिना व्याचष्टे । विशेषमेवार्थक्रियायोग्यं स्वभावाख्यमात्मभूतमित्यर्थः। कस्य भावस्य वस्तुनोधिकृत्य प्रवर्तते । स एव हीत्यर्थक्रियाकारी विशेषः। तथेति। गौरित्यादिशब्दैः। अर्थक्रियार्थी हि स्वलक्षणप्रतिपादनाभिप्राय एव शब्दं प्रयुङ्क्ते दृश्यविकल्प्ययोरेकीकृत्य। प्रतिपत्तापि तथैव प्रति