________________
४. सामान्यचिन्ता
३३५ तयोरपि भवेद्भेदो यदि; न हि क्वचिद् भेदोऽभेदो वैकान्तिकः, सामान्यविशेषेति व्यवस्थापनात् ।
येनात्मना तयोः ॥१७९॥ . भेदः सामान्यमित्येतद्यदि भेदस्तदात्मना । यदि स भेदः सामान्यविशेषयोर्यमात्मनमाश्रित्य सामान्यविशेग्नेति तेनात्मना भेदस्तदा व्यतिरेक एव। यस्मात् तौ यदि तयोरात्मानौ व्यतिरेकिणौ तदा --- व्यतिरेक एव, सामान्यविशेषयोहि स्वर स्वभावो हि भावः । एवं हि--
भेद एव तथा च स्यानिःसामान्यविशेषता ॥१८०॥
भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् । व्यतिरेके च सामान्यविशेषयो देऽपि न सामान्यवद परस्परसम्बन्धाभावात् । घटादि वदित्युक्तम्।
अपि च--
येनेत्या चा र्यः। तयोर्भेदसामान्ययोरयं भेद इदं सामान्यमित्येतोनात्मना व्यावृत्तेनानुगतेन च स्वभावेन भेदो व्यवस्थाप्यते। यदि तेनात्मना सामान्यविशेषयोर्भेदस्तदा भेद एवात्यन्तं। (१७६)
यदीत्यादिना व्याचष्टे। यमात्मानमित्यनुगतं व्यावृत्तञ्च। तेनात्मना सामान्यविशेषयोर्यदि भेद इति सम्बन्धः। एतदेव स्फुटयन्नाह। यस्मादित्यादि। तौ भेदव्यवस्थापकावात्मानौ तयोरिति सामान्यविशेषयोः। स्वात्म (1)नौ स्वभावभूतौ। तौ चेदनुगतव्यावृत्तावात्मानौ व्यतिरेकिणौ परस्परव्यावृत्तौ तदा व्यतिरेक एव भेद एव। किङ्कारणं (।) स्वभावभेदात्। (१७६-८०)
स्यान्मतम् (1) अवस्थाऽवस्थात्रोर्मेदव्यवस्थापको हि स्वभाव एव भिद्यते न भाव इत्याह । स्वभावो हीत्यादि। स्वभाव एव भाव इत्यर्थः। तथा चेति (1) भेवसामान्ययोरत्यन्तभेदे सति। भेदस्य निस्सामान्यता। सामान्यस्य च निर्विशेषता स्यादिति सम्बन्धः (1) सामान्यस्य भेदवत्त्वं भेदानां च सामान्यवत्त्वं न स्यात् सम्बन्धाभावादिति यावत्। यद्वद् घटादीनां भेदानां सम्बन्धाभावात् परस्परन्तद्वत्ता नास्ति। (१८१)
व्यतिरेके चेत्यादिनार्थमाह। भेदसामान्ययोरजन्यजनकत्वेन सम्बन्धाभावात् । भवति च तयोस्सम्बन्धितया प्रतीतिस्तस्माद् भ्रान्तत्वमुक्तमिति "न स्यात् सामान्यभेदधीरि"त्यत्रान्तरे (१।१७१) ।(१८०-८१)