________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१७६) अथाऽभिन्नेनात्मना स्वात्मभूतेन भिन्नस्वभावाः तदभिन्नस्वभावात्मत्वात् तद्वन्तः स्युः। भेदस्यापि कुतो भेदः परस्परम् ।
सामान्यस्य च तस्य न तदात्मता। तेनाऽपि तदात्मना तथा भवितुं न युक्तम् । 473a - तथाभावे हि तद्धर्मा स्यात् । न ह्ययं एकः प्रवृत्तिनिवृत्तिस्वभावो युक्तः।
न सर्वात्मनाऽभेद एव।
घटाद्यवस्थानां स्वरूपं व्यावृत्तं प्रतीयते। तेनावस्थातद्वतोर्लक्षणभेदाद् भेदोस्त्येवेत्यत्राह। अन्योन्यमित्यादि। सदृशासवृशात्मनोरित्यवस्थातद्वतोर्यदि भेदस्तदा तयोरन्योन्यम्भेद: परस्परमेकान्तेन भेदः स्यात् । अनुगतव्यावृत्तिरूपयोः परस्परासंश्लेषात् । न चापरः स्वभावोस्त्रि येन तयोरभेदः स्यादनन्तधर्मात्मकस्य धर्मिणरेप्रतीते (:)। भावाश्चेद् भेदिन इति सम्बन्धः । अभिन्नेनात्मना प्रधानाख्येनान्येन वा। वस्तुत्वादिना सुवर्णत्वेन वा तेषामेव घटादीनाम्भेदानां स्वात्मभूतेनाव्यतिरिक्तेन तद्वन्तः स्युरभिन्नस्वभाववन्तः स्युः । तेषां प्रधानादीनामभिन्न: स्वभावस्तदभिन्नस्वभावः आत्मा रूपं यस्य भेदस्य घटादिलक्षणस्य स तदभिन्नस्वभावात्मा। तद्भावस्तस्माद् (1) भेदस्यापि कुतो भेदः परस्परं। नैव। अनेनात्यन्ताभेदो व्याख्यातः।
अथ तस्य भेदस्य घटादिलक्षणस्य समान एक आत्मा न भवति। भेदस्य घटादिरूपेणानेकात्मकत्वात्। तथा सति तदात्मना भेदस्वभावेन तेनापि सामान्यपदार्थेन त्रैगुण्यादिना तथेति सामान्यात्मना भवितुन्न युक्तं। भेदादव्यतिरिक्तत्वात सामान्यस्य समानता न प्राप्नोतीत्यर्थः। एतेनात्यन्तभेदो व्याख्यातः । ___ तथाभावे हीति सामान्यात्मकत्वे प्रधानादेरिष्यमाणे प्रधानाद्यात्माऽतद्धर्मा भेदधर्मा न स्यात्। अव्यतिरेकिणावस्थाख्यन धर्मेण तद्वान्न स्यादित्यर्थः। अवस्थातद्वतोः परस्परतो भेदः स्यादिति यावत्। तमेव साधयन्नाह। न ह्ययमित्यादि। अयमेकः स्वभावः प्रवृत्तिनिवृत्तिमान युक्त इति सम्बन्धः। स्थानं प्रवृत्तिः । विगमो निवृत्तिः। तथा हि प्रधानशक्तौ स्थितायां सुवर्णद्रव्यत्वादौ च स्थितेऽवस्थानान्निवृत्तिरिष्यते। एतेनान्योन्यम्वा तयोर्भेद इत्यादि व्याख्यातं ।
नेत्यादिना पराभिप्रायमाशंकते। न सर्वात्मना सामान्यविशेषयोरभेद एव 122b किन्तु तयोरपि भेदसामान्ययोर्भेदो भवे' हादि। न हीत्यादिना व्याचष्टे। क्वचिद्
द्रव्ये सामान्यविशेषस्य परस्परम्भेदोऽभेदो वैकान्तिको न हीति सम्बन्धः। किङ्कारणं (1) विवेकिनेत्यादि। सामान्यं शक्तिः सुवर्णत्वन्द्रव्यत्वञ्चाविशेषो घटादय इत्येवंभेदेन व्यवस्थापनात्।