________________
३३३ .
४. सामान्यचिन्ता अन्योन्यं वा तयोर्भेदः सहशासहशात्मनोः।
मौलिनिवर्त्तने तदेव सुवर्णद्रव्यं घटरूपतया विनश्य मौलिरूपतयोत्पद्यमानं सुवर्णस्वभावेन तिष्ठतीत्यपरापरावस्थायाः परिणामि। तत्सामान्यमित्युच्यते। परिणामित्वादेव चावस्थातद्वतोरभेदोन्यथावस्थातुः सकाशादवस्था या भेदे परिणामायोगात्। घटात्मतया च सुवर्णद्रव्यस्य विनाशुपटार्थी शोकं प्रतिपद्यते। मौलिरूपतयोत्पादे तदर्थी प्रामोद्यं प्रतिपद्यते (1) सुवर्णतया च विनाशोत्पादाभावे सुवर्णार्थी माध्यस्थ्यं प्रतिपद्यते (।) तेन युगपदुत्पादव्ययध्रौव्ययुक्तं सदिति वस्तुनो लक्षणमिति। तदाह।
"घटमौलिसुवर्णार्थी वि(? ) नाशोत्पादस्थितिष्वयं । शोकप्रमोदमाध्यस्थं जनो याति सहेतुकं । न नाशेन विना शोको नोत्पादेन विना सुखं । स्थित्या विना न माध्यस्थन्तस्माद् वस्तु त्रयात्मकं । पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः। । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकं । न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् ।
वे (व्ये)त्युदेति विशेषेण सहकत्रोदयादि सदि"ति। सोप्यत्र निराकृत एव द्रष्टव्यः। तद्वति “सामान्यविशेषवति वस्तुन्यभ्युपगम्यमाने। अत्यन्तमभेदाभेदौ स्यातां। विशेषेभ्यो घटपटादिभ्यः सामान्यस्य त्रैगुण्यादिलक्षणस्याव्यतिरेकात् सामान्यमपि विशेषात्मकमित्यत्यन्तभेदः स्यात् । सामान्यस्याभावात् । सामान्याद विशेषाणामव्यक्तिरेकादैक्यमित्यन्ताभेदो विशेषाणामभावात् । एकम्भेदसामान्यात्मक' नास्तीति यावत् ।।
122a अथ सामान्यविशेषयोः कथंचिद् भेद इष्यते। अत्राप्याह । अन्योन्यमित्यादि। .. सदृशासदृशात्मनोस्सामान्यविशेषयोर्यदि कथंचिदन्योन्यम्परस्परम्भेदस्तदैकान्तेन तयोर्भेद एव स्यात् । घटपटवत् । न चार्थान्तरं सामान्यं प्रतीयते । तस्मान्नैकं सामान्यविशेषात्मकं वस्तु विद्यते। दि ग म्ब र स्यापि तद्वति वस्तुन्यभ्युपगम्यमानेऽत्यन्त भेदाभेदौ स्यातां। यदा घटाद्यवस्थाभेदेभ्यः सुवर्णत्वसामान्यस्याभेदस्तदात्यन्तमेकान्तेन भेदः स्याद् घटमौल्यादेः। सुवर्णत्वसामामान्यस्याभावात्। अथ सुवर्णत्वसामान्याद् घटमौल्याद्यवस्था भेदानामभेदस्तदात्यन्तमभेद एकान्तेनैकत्वं सुवर्णरूपतैव स्यादित्यर्थः। अथावस्थातद्वतोः स्वभावाभेदे सत्यपि लक्षणभेदाद् भेद इष्यते। तथा हि सुवर्णत्व सामान्यस्य स्वरूपं सर्वावस्थानुयायि प्रतीयते (1)