________________
३३२
'प्रमाणवार्तिकस्ववृत्तिटीका (१११७८) अथ च न किञ्चिदपि कारक, प्रभावः स्यात् । सर्वेषां सर्वत्र पर्यायेणोपयोगात्, तनिवेशिन्या रूपान्तरेण परिणताया उपयोगात् एकस्य कथं न तस्यैवैकस्य पर्यायस्य पाश्रयो वा। अभिन्नपरिणामो वा । विशेषे वा कथंचिद् एकत्वहानिरिति न किंचिदपि युक्तम् ।
अत्यन्तभेदाभेदौ च स्यातां तद्वति वस्तुनि ॥१७८।।
त्रैगुण्यस्य तेन तेन शालिवीजादिसन्निवेशेन भेदोप्यस्ति। अतो भेदात् कस्यचिद् क्रिया चेत्। “भेदश्चेदक्रियाहेतुर्न कुर्युः सहकारिणः।” तेषामपि परस्परं भेदात् ।
नेत्यादिना व्याचष्टे। सर्वाकारा धियः किन्तस्यैवैकस्य वस्तुनः । नैवेत्यर्थः। भेदाधिष्ठानत्वात्। पर्यायस्येति भावः। ___ अथेत्यादिना व्याचष्टे। सर्वेषाम्भेदानां सर्वत्र कार्ये पर्यायेण क्रमेणोपयोगात् । एतच्च यदा प्रधा न शक्त्याधिष्ठितानामेव भेदानामपरापरपरिणामेन कार्यकर्तृत्व
मिति दर्शनन्तदोक्तं। यदा त्विदं दर्शनम्प्रधानशक्तिरेवापरापररूपेण परिणामार्थ121b क्रिया यामुपयुज्यते तदेदमुच्यते (1) शक्तेर्वेत्यादि । त्रैगुण्यलक्षणायास्तनिवेशिन्याः
पूर्वमकारकाभिमतपदार्थनिवेशिन्याः पश्चाद् रूपान्तरेण कारकाभिमतरूपेण परिणताया उपयोगान्नैव कश्चिदकारकोस्तीत्यनेन सम्बन्धः। भेदो नानात्वमाश्रयो यस्य पर्यायस्य स तथोक्तः। एकस्याभेदस्य कथन्नैव। शालिबीजस्यैकस्य यवबीजादिरूपतया परिणामो न युक्त इत्यर्थ।
एतेन स किन्तस्यैव वस्तुन इत्येतद् विवृतं । (१७७-७८)
शक्तेर्वेति यदुक्तन्तत्राह। परिणामो वेति। अव्यतिरेकिण्या इति निर्विभागायाः शक्तेः परिणामो वावस्थानान्तरप्राप्तिर्वा कथं। अथेष्यतेऽवस्थान्तराणां प्राप्तिरात्मभूतैव वैगुण्यस्य। ततो विशेषे वा कथंचिदभ्युपगम्यते। प्रधानस्यैकत्वहानिरिति। ____ एवन्तावत्परिणामपक्षं निराकृत्याधुनाऽभिन्नम्वा भिन्नाभिन्नम्वा भिन्नम्वा सर्वासु चोत्तरोत्तरावस्थास्वनुयायित्वादूर्द्ध (?x) वृत्ति वा। समं . सर्वासु व्यक्तिष्वनुयायित्वात् तिर्यग्वृत्ति वा सामान्यमभ्युपगम्य सां ख्य मी मां स क नै या यि काद्यभिमतं दूषयितुमाह। किंचेत्यादि।
तेन योपि दि ग म्ब रो मन्यते (1) नास्त्याभिर्घटपटादिष्वेकं सामान्यमिष्यते तेषामेकान्तभेदात् । किन्त्वपरापरेण पर्यायेणावस्थासंज्ञितेन परिणामि द्रव्यमेतदेव च सर्वपर्यायानुयायित्वात् सामान्यमुच्यते। तथा हि सुवर्णात्मकं घटं भडक्त्वा