________________
. ४. सामान्यचिन्ता
३३१
472b
एवं जनकस्वभावात् भेदजनक स्यात् । जनकत्वेऽपि अविशेषात् सर्वो जनकः स्यादिति यदुक्तम् । अत्र चोद्ये। यदि अविशेषभूतं, तथा च सति यथाऽऽत्मत्वाभेदवादिनोऽत्र अभेदस्य विशेषाभावेऽपि न सो सर्वजनकः, तथा विशेषेऽपि भविष्यति। अथवा--
भेदे हि कारके किञ्चिद् वस्तुधर्मतया भवेत् ॥१७६॥
अभेदे तु विरुध्येते तस्यैकस्य क्रिया क्रिये। भेदमात्राविशेषेऽपि स्वहेतुप्रत्ययनियमितस्वभावत्वात्, कश्चिदेव कारकः स्यान्नान्ये, अतत्स्वभावलक्षणत्वात् । तथा नात्र कश्चिदपि विरोधः ।
एकत्वेऽपि न तत् तस्मादेव एवं कारकत्वाकारकत्वे इति। एकत्वेऽपि न तस्य तत्रैव तथा कारकत्वाकारकत्वे इति हि विरोधः। . भेदोप्यस्ति क्रियातश्चेत् न कुर्युः सहकारिणः ॥१७७॥
अथ सर्वाकारेषु अभेदोनोच्यते भेदस्य भावात्। ततश्च न कारकं किंचिदपि। तथा चेत् केनाऽपि प्रकारेण भेदात् सहकारी हि कारको न स्यात् ।
पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः ।
शाल्यडकुरजननस्वभावाद् भिन्नः पृथिव्यादिः। अस्येत्यङकुरस्य । जनकत्वे वाभ्युपगम्यमाने भेदस्याविशेषात् सर्वो जनकः स्यादिति। अत्र चोद्ये उक्तमेवोत्तरं। इदन्तु द्वितीयमुच्यते। किं पुनरुक्तमित्याह। यदीत्यादि। प्रतिनियत कार्यजनकाजनकत्वलक्षणो विशेषो न स्यात्। (१७५-७६)
स्यादेतच्चोद्यमिति।
यथेत्यादिना श्लोकार्थमाह। तथा विशेषेपि भविष्यति । न सर्वः सर्वजनक इति सम्बन्धः। वस्तुधर्मतयेति वस्तुशक्त्या। भावानामभेदे त्वभ्युपगम्यमाने। तस्य सर्वत्राभिन्नत्वेनाभ्युपगतस्यैकत्र क्रियाक्रिये विरुध्येते। (१७६-७७)
भेवमात्रेत्यादिना व्याचष्टे। हेतुरुपादानकारणं। प्रत्यया स्सहकारिणः (1) स्वेहेतुप्रत्ययाः स्वहेतुप्रत्ययास्तनियमितो विशिष्टकार्यनिर्वर्त्तनसमर्थः कृतः स्वभावो येषान्ते तथोक्ताः। तद्भावस्तस्मात् । नान्य इत्यकारकाभिमता न कारका स्युः । किङ्कारणम् (1) अतत्स्वभावत्वात्। अतत्कार्यजननस्वभावत्वात्। तस्येत्येकस्य त्रैगुण्यस्य। तत्रैवेत्येकस्मिन्नेव कार्ये। तथेति तेनैवाभिन्नेन प्रकारेण। तथापि यदा शालिबीजं शाल्यडकूरं जनयति तदैव न यववीजं शाल्यडकूरं जनयति । यश्च शालिबीजस्यात्मा। स एव यवबीजस्येत्येकत्रैकस्य क्रियाक्रिये प्रसज्यते।