________________
३३० प्रमाणवात्तिकस्ववृत्तिटीका (१।१७६)
न चात्र अभेदप्रतिभासापरदर्शनं अभूतं, यद्वलेन अभेदज्ञानं जायेत। ततो विशेष एव सोऽर्थः।
स एवार्थस्तस्य व्यावृत्तयोऽपरे । तत् कार्य कारणञ्चोक्तं तत्स्वलक्षणमिष्यते ॥१७४॥
तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः । योर्थक्रियाकारी स एव वस्त्वित्युक्तम् । स च विशेष एव। यच्च सामान्यमिति तद्धि तस्यैव व्यावृत्तिः। न हि तस्यार्थत्वे दृश्यस्य रूपानुपलक्षणं युक्तम् । भेदेषु अभेदप्रत्ययस्य तदुपलक्षणकृतत्वात् । अपि च--
यथा भेदाविशेषेऽपि न सर्वं सर्वसाधनम् ॥१७५।। तथा भेदाविशेषेऽपि न सर्वं सर्वसाधनम् ।
सादिः। भिन्नः प्रतिभासादिर्यस्येति विग्रहः ।
निर्विकल्पकबोधेन द्र्यात्मकस्यापि वस्तुनो ग्रहणादभेदोपीति चेदाह । न चात्रेत्यादि। अत्रेति भेदेषु। अपरमिति द्वितीयं। यद्वलेनाभिन्नप्रतिभासबलेन। ततो विशेष एव भेद एव। न त्वभेदोस्ति। स एव विशेषो वस्तु।
ये त्वपरे सामान्यधर्मा वस्तुत्वादयस्तस्यैव व्यावृत्तयः कल्पिताः । (१७३-७४)
तत्कार्यमित्यादि। कार्यादिपदसामानाधिकरण्यान्नपुंसक। अन्यथा विशेशस्य प्रक्रान्तत्वात्स इति स्यात् । तदेव विशेषरूपं कार्य कारणं चोक्तन्तदेव स्वलक्षणमच्यते (1) तत्त्यागाप्तिफला इति तस्यैव विशेषस्य हेयस्योपादेयस्य वा यथाक्रमं त्याग आप्तिश्च फलं यासाम्प्रवृत्तीनान्तास्तथोक्ताः। स चार्थक्रियाकारी विशेष एव। तस्यैवेति विशेषस्यापरस्माद् विजातीयाद् भेदो व्यावृत्ति-. मात्र। न तु वस्तुभूतं किञ्चित् सामान्यं नाम। (१७४-७५)
यदि हि स्यात् तदुपलब्धिलक्षणप्राप्तम्भेदव्यतिरेकिणोपलभ्येत। हि यस्मा121a त् । न हि तस्य सामान्यस्यार्थत्वे वस्तुत्वे सति दृश्यस्य सतः। रू'पानुपलक्षणं
स्वरूपाग्रहणं युक्तं । कस्मात् । तदुपलक्षणकृतत्वात् सामान्योपलक्षणकृतत्वाद् भेदेषु भेदप्रत्ययस्य। न हि स्वयमगृहीतम्परत्र ज्ञानहेतुः ।
एवन्तावत् मी मां स का दिमतेन प्रातिभासिकं सामान्यं निराकृत्यानुमानिकमपि पूर्वोक्तं सां ख्य मतेन निराकर्तुमाह। अपि चेत्यादि। यथा सांख्यस्य भेदाविशेषेपि न सर्व सर्वसाधनं। तथा बौद्धस्य भेदाविशेषेपि न सर्व सर्वसाधनं । कस्य पुनश्चोद्यस्यायं समाधिरित्याह। यदुक्तमित्यादि। तज्जनकस्वभावादिति (1)