________________
४. सामान्यचिन्ता
न विशेषस्वभावाः। ___ स्यादेतत् । अभिन्ना अपि तदेकशक्तियोगात् जनकाः। तेनाजनकाः प्रोक्ताः। . तेन सामान्यरूपेण तेऽजनकाः। तस्यानपायात् । एकत्र स्थितेनाऽपि फलोत्पादप्रसंगादित्युक्तम् ।
प्रतिभासोऽपि भेदकः ॥१७॥ अनन्यभाक्; किंच, शब्दा उत्पादस्थितिनिरोधविशेषाः । सर्वार्थाभेदचित्तो यः तस्य 472a ह्यर्थेषु बुद्धिप्रतिभासभेदो विरुद्धधर्माध्यासात् न वा स्यात् । सति वा तस्मिन् अभेदे न क्वचित् स्यात् । तथा चैकात्मवद् अयं (प्र) विभागो न स्यात्। तस्मादयं भिन्नप्रतिभासादिर्भेद एव न।
रूपमन्यस्य पृथिव्यादेस्तनास्ति । न तावतेति शालिबीजरूपवैकल्यमात्रेणा जनकः पृथिव्यादयः। अप्यभेद इत्यादि। तेषु भेदेष्वभेदोप्यस्तीत्यर्थः।
स्यादेतवित्यादिना व्याचष्टे। तदेवाभिन्न रूपमेका शक्तिस्तया योगात् । तेनेत्या चा र्यः। तेनाभिन्नेन रूपेण ते विशेषा अजनकाः प्रोक्तः। ।
सत्यपीत्यादिना व्याचष्टे। तेन सामान्यरूपेण ते विशेषा अजनकाः (1) किङ्कारणं (1) तस्य सामान्यरूपस्य नित्यत्वेनानपायात्। एतच्च "नापत्यभिन्नन्तद्रूपम्विशेषाः खल्वपायिन” (१।१६७) इत्यादिना प्रागुक्तं। (१७२-७३). ___"स्यातां नाशोभवौ सकृदि" (१।१७०) त्यादिना विरुद्धधर्माध्यासाद् भेदम्प्रसाध्य प्रतिभासभेदेनापि साधयितु माह । किं चेत्यादि। किम्विशिष्ट: प्रतिभासभेद: (1) अनन्यभाक्। प्रतिव्यक्ति भिन्नः । अपिशब्दादुत्पत्त्यादिभेदश्च भेदकः । एतच्च पूर्वोक्तमेव समुच्चीयते।
योपि वे दान्त वा द्याह। अभावग्रहणनिमित्तको हि भेदग्रहो न चाभावः प्रत्यक्षग्राह्यः । तेन प्रत्यक्षेण सत्तामात्रगृह्यते न भेदः। तदुक्तं ।
"गव्यश्वे वोपजातन्तु प्रत्यक्षं न विशिष्यते" (1)
इत्यत आह । न्यायमित्यादि। तस्येत्यभेदवादिनः । बद्धिप्रतिभासभेदो बुद्धेराकारभेदः । विरुद्धधर्माध्यासश्चेति पृथगुत्पत्तिविनाशादिकः । सति वा तस्मिन् प्रतिभासादिभेदे भावानामभेदेभ्युपगम्यमाने न क्वचिद् भेदः स्यात् । लोकप्रतीतश्च भेदः । तथा चेत्यभेदे सति अयं प्रविभाग इति प्रतिभासादिप्रविभागः। एकात्मवत् । यथैकस्मिन् सुखात्म नि न प्रतिभासादिभेदस्तद्वत्। तस्मादयं बाह्याध्यात्मिको भेदो विशेष एव परस्परविलक्षण एव। किंभूतः (1) भिन्नप्रतिभा
४०