________________
३२८ प्रमाणवात्तिकस्ववृत्तिटीका (१।१७३) यत्पुनरिदं वचनं तज्जनको हि तत्स्वभावः--
यत्तस्य जनकं रूपं ततोऽन्यो जनकः कथम् ॥१७२।। इति ब्रूमः, तत्रान्यजनकं रूपं नास्तीति न ब्रूमः। किन्तर्हि ? यदेकस्य तज्जनक स्वरूपं तदन्यस्य नेति ब्रूमः। अन्योऽपि स्वरूपेणैव जायते न (पर)रूपेण अतत्वात् । तेऽपि यथास्वं भिन्ना जनकाश्च स्वभावेनेति कोत्र विरोधः ? एकरूपविकलः तद्रूपो न स्यात्, नातत्कार्यः। तेनैव तत्कार्य इत्यत्र को न्यायः ? अपि च ।
भिन्ना विशेषा जनकाः इत्युक्तम।
तेऽपि विशेषास्तेनात्मना नान्योन्यान्वयिनः। यदेकस्य जनक रूपं तन्नास्ति। न तावताऽजनकाः। यदि तेऽभिन्नाः, तथा सति सत्यम। विशेषा जनकाः, तेऽपि
समानदोष तामपनीय पुनः प्रकारान्तरेण प्रक्रान्तञ्चोद्यं परिहर्तुमाह। यत्पुनरित्यादि। तज्जनको हि तस्य शाल्यडकुरस्य जनको हि स तस्य शालिबीजस्य स्वभावः। यच्च तस्य शालिबीजस्य शाल्यडकूरजनकं रूपं । ततो जनकाद रूपादन्यः पृथिव्यादिर्जनकः कथमिति। तत्रेत्युपन्यासे। तत्र वा चोद्ये प्रतिविधीयते। शालिबीजादन्यस्य पृथिव्यादेस्तज्जनकमडकुरजनकं रूपं नास्तीति न ब्रूमः। किन्तर्हि यदेकस्य शालिबीजस्य जनक रूपन्तदन्यस्य पृथिव्यादेर्नेति ब्रूमः। भावानां परस्परमनन्वयात्। अन्योपीति। पृथिव्यादिः । न पररूपेणेति न शालिबीजरूपेण। किं कारणम् (1) अतत्वादतत्स्वभावत्वात्। न चात्र बाधकं प्रमाणमस्तीत्याह। ते पथिव्यादयो यथास्वमिति (1) यस्य यत्स्वलक्षणं तेन भिन्नाश्च परस्परमेकस्य कार्यस्य जनकाश्च स्वभावेनेति कोत्र विरोधो न कश्चिद बाधकप्रमाणाभावात् । न तु शाल्यडकूरजनकाभिमतेन शालिबीजरूपेण विकलस्य पृथिव्यादेः शाल्यकुरकार्यत्वम्विरुद्धमित्यत आह। एकरूपेत्यादि। एकस्य शालिबीजस्य जनकं यद्रूपन्तेन विकलः पृथिव्यादिस्तद्रूपः शालिबीजादिस्वभावो न स्यात् । नातत्कार्यः किन्तु तत्कार्य एव। स शाल्यङ्कुरः कार्यमस्येति विग्रहः । यदि तु बीजस्यैवाङकुरजनकत्वं स्यात् स्याद् विरोधस्तच्च नास्ति । तदाह । तेनैवेत्यादि। शालिबीजेनैव तत्कार्यमङकुराख्यं ।
अपि चेत्यादिना पूर्वोक्तं स्मारयति। 12ob “एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भव" इति (1) प्रमाणबलेन विशेषा
जनका इत्यक्तं प्राक। तेनात्मनेति तेन जनकरूपेण। यदेकस्य बीजस्य जनक