________________
४. सामान्यचिन्ता
३२७
नार्हति । अन्यापोहेऽपि समान एष प्रसंग इति चेत् । न समानः। तथा--
निवृत्तेनिःस्वभावत्वात् न स्थानास्थानकल्पना ॥१७१।। अन्यापोह' इति न कश्चिद् भावः तस्यापि स्वभावानुषंगिणीभिः स्वरूपस्थितिप्रच्युतिकल्पनाभिः कल्पना न स्यात् ।
उपलवश्व सामान्यधियस्तेनाप्यदूषणा ।” मिथ्याज्ञानं हीदं निविषयमेव अनेकत्रकाकारं तद्विषयस्याभावात्, न स्थितिरस्थिति।
471b
द्वितीयोर्थः (1) तदिदं भेदात्मकं वस्तु सामान्यादर्थान्तरन्तस्मिन् सामान्ये अनायत्तन्तेनाजन्यत्वात् । नित्यस्यार्थक्रियाऽसामर्थ्यात् । अस्य भेदस्येदं सामान्यमिति व्यपदेशं नाहति। भेदो वास्य सामान्यस्येति ॥ ____ अन्यापोहेपि सामान्ये एष प्रसंग इति । य एकस्मिन् विनश्यति तिष्ठत्यात्मेत्यादिकः। तथा हि धवे खदिरे वा विनश्यत्यवृक्षव्यावृत्तिस्तिष्ठत्येव वृक्षान्तरे।
नेत्यादिना परिहरति। अयमत्रार्थो द्विविधोन्यापोह एको विजातीयव्यावृत्तौ बाह्यः स्वाकारभेदेनाध्यस्तो विकल्पबुद्ध्या यो विषयीक्रियते शब्देन च। तस्यैवार्थक्रियाकारित्वेन च प्रवृत्तिविषयत्वान्न बुद्धि'प्रतिभासमात्रस्यार्थकारित्वा- 120a भावात् । अपरोर्थाद् यत् प्रतीयतेऽन्यनिवृत्तिमात्रं । (१७०-७१) __ यच्चैतदन्यनिवृत्तिमात्रन्तस्य निःस्वभावत्वान्नैतच्चोा । आ चा र्ये ण वा यदभिमतन्तस्य निःस्वभावत्वादभावादित्यर्थः। तदाह (1) निवृत्तेनिःस्वभावत्वादिति ने स्थानास्थानकल्पना।
विशेषे विनश्यति किमन्यापोहस्तिष्ठति। किम्वा निवर्त्तत इति। इयं स्थानास्थान'कल्पना युक्ता। तस्येत्यन्यापोहस्य। स्वभावानुषङ्गिण्यो वस्त्वनुपातिन्यः । विकल्पबुद्ध्यारोपितं यत्सामान्यन्तत्र तर्हि स्वरूपस्थितिप्रच्युतिकल्पना भविष्यतीत्यत आह । उपप्लवश्चेत्यादि। यः सामान्याकारोऽनेकपदार्थाभिन्नः प्रतिभासते (1) सामान्यधिय उपप्लवो भ्रान्तोऽतः सोपि बहिर्नास्त्येव (1) यत एवन्तेनापि विप्लवत्वेन कारणेन सामान्यधीः। अदूषणा । नास्यां यथोक्तं दूषणमस्तीति विग्रहः।
इदमेकाकारं विकल्पविज्ञानं निविषयं। यस्मान्मिथ्याज्ञानम्मिथ्यार्थमेव कथमिति चेदाह। यदित्यादि। यस्मादनेकत्रैकाकारं। तद्विषयस्य विकल्पविज्ञानविषयस्य सामान्यस्य न स्थितिरस्थितिर्वा। कस्मात् (1) तस्य मिथ्याज्ञानविषयस्याभावात्। (१७१-७२) .