________________
३२६
__ प्रमाणवात्तिकस्ववृत्तिटीका (१।१७१) एवं हि--
य एकस्मिन् विनश्यति ॥१७०॥ तिष्ठत्यात्मा न तस्यातः; स्थानास्थानयोरेकाश्रयत्वे कोऽन्यो धर्मो भेदकः ? एवं क्वचिदपि नानात्वं न स्यात् । सर्वाकारविवेकिनोरर्थयोरभ्युपगमात् । नाम केवलं नेष्टं स्यात् । वस्तु तु नेत्युक्तं प्राक् । तद् इमे नैकयोगक्षेमाः इमे भावा भिन्ना एव ।
_ न स्यात् सामान्यभेदधीः । तद् इदं नार्थान्तरं अनायत्तं, अजन्यत्वात्, अस्य सामान्यं भेदो वेति व्यपदेशं
परस्परमभेदोप्यवस्थानान्तु परस्परम्भेद एव। इति यथोक्तादवस्थादिलक्षणाद् भेदात्। (१६९-७०)
एवं तर्हि सामान्यस्य नित्यत्वात् सर्वत्र स्थानं । विशेषाणान्तु विनाश इत्येतदङ्गीकृतं । ततश्चैकस्मिन् विशेषे विनश्यति सति यस्तिष्ठति सामान्यात्मा न स तस्य विशेषस्य सम्भवः। विरुद्धधर्माध्यासात् - सामान्यविशेषयोर्भेद एव स्यात् । अन्यथा स्थानास्थानयोरेकात्माश्रयत्वेभ्युपगम्यमाने विरुद्धावपि धर्मावेकात्मन्यङ्गीकृतौ भवतश्च (1) कोन्यो धर्मो भेदको नैव कश्चित्। नैव विरुद्धौ धर्मावेकत्राङ्गीक्रियेते तयोर्लक्षणभेदाद् भिन्नत्वात्। तथा हि विशेषाः पृथगुत्पादादिना सर्वाकारविवेकिनः सामान्यन्तु पृथगुत्पत्त्याद्यभावात् सर्वत्राविवेकीत्यत आह। सर्वाकारेत्यादि। सर्वाकारविवेकाविवेकिनोर्यथाक्रमम्भेदसामान्ययोरर्थयोरभ्युपगमात् । नाम केवलमिति: भेदसामान्ये भिन्ने इत्येतदभिधानमात्र नेष्टं स्यान्न 'तु वस्तु। वस्तु तु भेदसामान्यात्मकम्परस्परम्भिन्नमेवेष्टं। एतच्चोक्तं प्राक् । नामान्तरं वार्थभेदमभ्युपगम्य तथाभिधानादित्यादिना। __ तदिति तस्मात् । इमे भावा इति विशेषाः सामान्यम्वा परस्परंभिन्ना एव । किंभूता नैकयोगक्षेमा विरुद्धधर्माध्यासिता इति यावत् । अतः कारणान्न स्यासामान्यभेदधीः। सामान्यविशेषयोः परस्परमसम्बध्नन्ती बुद्धिर्न' स्यादित्यर्थः । बुद्ध्यभावाच्च व्यपदेशोपि प्रतिक्षिप्त एव। बुद्धिनिबन्धनत्वात्तस्य। तेने।
"अन्योन्यापेक्षिता नित्यं स्यात् सामान्यविशेषयोः ।
विशेषाणान्तु सामान्यन्ते च तस्य भवन्ति हि (आकृ०६)" -इति निरस्तं। तदिति तस्मात् । इदं सामान्यम्भेदेभ्योर्थान्तरं। भेदेष्वनायत्तं। कस्मात् (।) तैर्भेदैस्तस्य सामान्यस्याजन्यत्वात् ।