________________
४. सामान्यचिन्ता
तदन्यस्मात् इत्यनादि' र्हेतुपरम्परा ।
न हि भिन्नानां कश्चिद्धेतुरपरः, स्वभावादिति न किमपि बाधकम् । स्वभावोऽयमभेदे तु स्यातां नाशोद्भवौ सकृत् ।
स्वभावेनाभेदात् । 7 स्वात्मवद् नानाविभागोत्पत्तिस्थितिनिरोधा न स्युः । 471a तथाऽभेदेनोपलक्षणात् । भेदाभेदलक्षणे हीमे एका 'कारस्यापि व्यतिरेकाव्यतिरेके, एकात्मनि विरोधाभावात् ।
भेदोऽपि तेन नैवं चेत्;
३२५
न वै सर्वाकारेणाभेदे ब्रूमो येनैवं स्यात् । किन्त्वस्य कश्चिदात्मा' भिन्नाभिन्न इति भेदात् न सहजादिः ।
न हि भिन्नानाम्भावानां हेतुप्रविभागे बाघ' कं प्रमाणमस्ति । तदेवाह । भिन्नत्यादि । स्वभावादिति वस्तुस्थितेः । एकत्वे तु बाधकमस्तीत्याह । अभेदे त्वित्यादि । परस्परमभेदादेकस्य नाशे सर्वस्य युगपन्नाशः उत्पादे सर्वस्योत्पादः स्यादित्यर्थः ।
•
अभेदादित्यादिना व्याचष्टे । विश्वस्य सर्वस्य पदार्थराशेः स्वभावेनाभेदात् । विभागोत्पत्तीत्यादि । एकस्योत्पत्तिरन्यस्यानुत्पत्तिरेकस्य स्थितिरन्यस्य निरोध इत्येवम्विभागेनोत्पत्त्यादयो न स्युः । स्वात्मवदिति । यथैकस्यावस्थाविशेषस्य विभागेन नोत्पत्त्यादयस्तद्वदित्यर्थः । आदिशब्दादेकस्य ग्रहणमन्यस्याग्रहणमित्यादि । सूत्रे तु नाशोत्पादग्रहणमुपलक्षणार्थं । तथा तेनैव विभागोत्पत्त्यादिना उपलक्षणान्निश्चयादभेदस्य । अन्यथा भेदाभेदौ केन लक्ष्येते । एकाकारस्यापीति तुल्याकारस्यापि व्यतिरेको विभागः पृथगुत्पत्त्यादिमत्त्वं । तद् भेदस्य लक्षणं । अव्यतिरेकोऽविभागः पृथगुत्पत्त्यादिमत्त्वाभावः । तदभेदस्य लक्षणं । सत्यपि विभागोत्पत्त्यादिमत्त्व कस्माद् भेद इत्याह । विरोधिनोरित्यादि । विरोधिनोरुत्पादानुत्पादप्रभृ॰तिकयोर्युगपदेकात्मनि विरोधात् । नाभेद एवार्थानां किन्तु भेदोप्यस्ति । तदुक्तं ।
सर्वं हि वस्तुरूपेण भिद्यते न परस्परं ।
स्वरूपापेक्षया चैषां परस्परविभिन्नतेति ।
तेन कारणेन । नैवं ( 1 ) न सकृदुत्पादादिप्रसंग इति चेदाह । नेत्याद्यस्यैव व्याख्यानं। न वै सर्वेणाकारेणाव्यतिरेकमभेदं ब्रूमः । येनैवं स्यात् । सकृन्ना - 119b शोत्पादादि स्यात् । किन्त्वस्य बाह्याध्यात्मिकस्य भेदस्य कश्चिदात्मा घटाद्यवस्थाविशेषलक्षणो भिन्नो नान्यस्त्रैगुण्यात्मकः सुखदुःखमोहात्मताया वस्तु रूपताया द्रव्यरूपताया सत्तारूपतायाश्च सर्वत्रानुगमात् । तेनायमर्थोवस्थातद्वतोः