________________
३२४
___ प्रमाणवात्तिकस्ववृत्तिटीका (१।१६६) जनकत्वे भेदा विशेषात् सर्वो जनकः स्यात् । . नैतदस्ति--
तेनात्मना हि भेदेऽपि हेतुः कश्चिन्न चापरः ॥१६९॥ स्वभावोऽयं एकजनकात्मनो भिद्यमानाः सर्वे समं जनका न वा कश्चिज्जनक इति । यथा तेषु न विशेषभावः, ततो भेदाविशेषेऽपि कुतश्चिदात्मातिशयात् कश्चिज्जनको नापरः, स हि तस्य स्वभावो नापरस्य । __ न हि वस्तुस्वभावेषु किमग्निर्वहत्युष्णो वा नोदकमिति पर्यनयोगमर्हति, स्वभावायोऽयमिति यतः इति तन्मात्रं स्यात् । निर्हेतुकत्वेऽनपेक्षिणोऽनियमेनातिप्रसङ्गात् । तस्मात् स्वभावोऽस्य स्वहेतोरित्युच्यते । तस्यापि तज्जननात्मता
इत्यादिना प्रागप्येतत् परिहृतन्तथाप्यधिकविधानार्थः. पुनरुपन्यासः। एकस्य वीजादेर्यजनक रूपन्तदन्यस्य पृथिव्यादेर्नास्तीति कृत्वाऽन्यः सहकारी अजनकः स्यात्। जनकस्वभावाद् भिन्नस्वभावस्य जनकत्वे चाभ्युपगम्यमाने भेदाविशेषात् सर्वो यवबीजादिरपि शाल्यडकुरस्य जनकः स्यात् ।
नैतदित्यादिना परिहरति। शालिबीजस्यैकस्य जनकस्य य आत्मा तेना'त्मना पृथिव्यादेः यवबीजादेश्चात्यन्तभेदेपि हेतुः कश्चित् पृथिव्यादिः शाल्यंकुरस्य नापरो यवबीजादिः। चशब्दः श्लोकपूरणार्थः। एवकारार्थो वा। किङ्कारणं (1) स्वभावोयं भावानां एकस्य यो जनक आत्मा तस्मादात्मनः स्वभावाद् भिद्यमानाः
सर्वे समन्तुल्यं जनकाः प्राप्नुवन्ति (1) भेदाविशेषान्न वा कश्चिज्जनक इति (1) II9a स्यादेतच्चो’द्यं । यद्येषामेकस्माज्जनकादात्मनो भिन्नानान्तदतत्कार्य
जननं प्रति नियमलक्षणो विशेषो न सम्भवेत् । किन्तु सम्भवेदेव । तत इति विशेषसम्भवात। भेदाविशेषेपि कृतश्चिदात्मातिशयाद्विशिष्टकार्यप्रतिनियतलक्षणात् कश्चिज्जनकः पृथिव्यादि: शाल्यंकुरस्य नापरो यवबीजादिः (1) कस्माच्छाल्यडाकुरजनना विशेषस्तस्य पृथिव्यादेः सहकारिणः स्वभावो नापरस्य यवबीजादेः। अयमेव विभागः किंकृत इति चेदाह। न हीत्यादि। किमग्निर्दहत्युष्णो वा नोदकन्दहत्युष्णं चेति न पर्यनुयोगमर्हति प्रत्यक्षादिप्रमाणसिद्धत्वात्। एतावत्तु प्रष्टुं युक्तं स्यात् (।) कुतो हेतोरयं यथोक्तस्वभाव इति। अवश्यं हि स्वभावभेदस्य हेतुना भाव्यं । यतो निर्हेतुकत्वेऽनपेक्षिणो देशादिनियमेनातिप्रसंगात । सर्वत्र सर्वदा सर्वात्मना भावप्रसंगात्। तस्मात् स्वभावोस्य कारणाभिमतस्य स्वहेतोः सकाशाद् भवतीत्युच्यते । तस्यापि स्वहेतोस्तज्जननात्मता तथाभूतकारणस्वभावजननात्मता तदन्यस्मात् स्वहेतोरित्यनादिर्हेतुपरम्परा।