________________
४. सामान्यचिन्ता
३२३
यत्साकल्यवैकल्याभ्यां तत एव कार्यस्योत्पत्तिः, तस्मिन सति भवतो नियमः स्यात् । तदन्यस्मादुत्पत्तिकल्पनायां हि अतिप्रसङ्गात्। तस्माद् विशेषा एव जनका न सामान्यम् । ततस्त एव वस्तु।
स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥१६॥ - इदमेव हि वस्त्ववस्तुलक्षणं अर्थ क्रियायोग्यताऽयोग्यते इति वक्ष्यामः। 470b अर्थक्रियासमर्थो योग्योऽर्थः।
स च नान्वेति योऽन्वेति न तस्मात् कार्यसंभवः । तस्माद् सर्व सामान्यं अनर्थक्रियायोग्यत्वात् न वस्त्विति वस्तु विशेष एव, तत एव तन्निष्पत्तेः।
स्वभावानन्वयात् तहि एकस्य जनक रूपं तदन्यस्य नास्तीति अज़नकः स्यात्।।
न्यस्याजनकात्मतां सचयति। (१६७-६८॥)
ननु न सामान्यमेव जनकमिष्यते येनायन्दोषः स्यादपि तु अनेकात्मतया जनक
वाह। यत्साकल्येत्यादि। येषां च विशेषाणां साकल्यवैकल्याभ्यां कार्यम्भावाभाववत्। तत एव विशेषेभ्यः कार्यस्योत्पत्तिः। तस्मिन् सतीति हेतुभावयोग्ये विशेषे सति भवतः कार्यस्य। तदन्यस्मा दिति। विशेषादन्यस्मात् सामान्यादतिप्रसंगात् सर्वः सर्वस्य कारणं स्यात्। यत एवं तस्माद् विशेषा एव जनकाः। न सामान्य जनकं । ततोऽजनकत्वात् त. एव विशेषा वस्तु। परमार्थसन्त इत्यर्थः। किं कारणं (1) यस्मात् पारमार्थिको भावः परमार्थसन्नित्यर्थः । स एवार्थक्रियाक्षमः।
इदमेव हीत्यादिना व्याचष्टे। अर्थक्रियायोग्यता वस्तुनो लक्षणं । अभ्योग्यता त्ववस्तुनो लक्षणं । वक्ष्याम इति सम्बन्धः (1)
अर्थक्रियाक्षमं यत्तदत्र परमार्थसदि (३।३) त्यादिना। सर्वार्थक्रियायोग्योर्थो विशेषात्मको नान्वेति । विशेषस्य व्यक्त्यन्तराननुयायित्वात् । योन्वेति सामान्यात्मा। तस्मात सामान्यात्मनो न कार्यस्य सम्भवः ।
तस्मादित्यादिनोपसंहारः । अनर्थक्रियायोग्यत्वादित्यर्थक्रियायामयोग्यत्वादित्यर्थः । तत एवेति विशेषादेव तन्निष्पत्तरर्थक्रियाया निष्पत्तेः ।
तदेवम्परैः कल्पितस्याजनकत्वं प्रतिपादितं। (१६८-६६)
अधुना यत्परेणोक्तं “एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदत" इति तत्परिहर्तु तदेव चोद्यमावर्त्तयति। स्वभावानन्वयात्तीत्यादिना।
"ज्वरादिशमने कश्चित् सह प्रत्येकमेव वा (११७६)"