________________
३२२
प्रमाणवात्तिकस्ववृत्तिटीका (१।१६८) हानेः। स हि तत्राप्यस्तीति नैकस्य स्थितावपि तस्यापायोऽस्ति । ये विशेषा अवस्थाभेदास्तेषां सहस्थितिनियमाभावात् स्यादपायः ।
न च ते जनका इष्टाः। सहकारिणां हि एकस्वभावतया जनकत्वाभ्युपगमात् । तस्माद् जनकस्य स्थानात्, अस्थायिनोऽजनकत्वात् एकस्थितावपि कार्योत्पत्तिः स्यात, न च भवति। ततः--
एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः । अनेकसहकारिसाधारणं कार्य एकविशेषापायेऽपि न स्याद, सर्वविशेषा'पायेऽपि स्यात्। नन्वखिलेऽप्यभिन्न रूपे न भवति । कार्य हि कुतश्चिद् भावधर्मी न स्यात्, य भवति तत्तस्य वैकल्यात् । न चाभिन्नस्य एकस्य स्थितावपि वैकल्यमस्ति । अविकले तस्मिन अभवत तस्याजनकतां सूचयति ।
भिन्नस्य कार्यजननस्वभावस्य बीजादर्थान्तरेपि पृथिव्यादौ विशेषोस्ति । किङ्कारणम् (1) विशेष सत्यभेदहानेः। स ह्यभिन्नो जनकाभिमतः स्वभावस्तत्रापि बीजेपि केवलेस्तीति । नैकस्य स्थितावपि तस्येत्यभिन्नस्य रूपस्य जनकाभिमतस्यापायो विनाशोस्ति । त्रैगुण्यस्य सर्वात्मना सर्वत्र सर्वदा सत्त्वात्। ये विशेषा अवस्थाभेदास्तेषां सहस्थितिनियमाभावात् स्यादपायः।
एतच्चाभ्युपगम्योक्तं। अन्यथा नित्यादवस्थान्तरव्यतिरिक्तानां विशेषाणामपि कथमपायः। न च ते जनका इति विशेषाः कस्मान्नेष्टा इत्याह। सहकारिणामित्यादि। तस्मादेकस्मिन्नपि बीजादौ स्थिते जनकस्यात्मन: स्थानात् । अस्थायिन इति विशेषस्य । एकस्थितावपीति बीजादेरन्यतमस्य स्थितावपि कार्यो
त्पत्तिः स्यात् । न च भवति कार्योत्पत्तिः। ततः सामान्यस्थितेपि सहकारिणाम्म118b ध्ये। एकस्य विशेषस्यापा ये। फलाभावाद विशेषेभ्यस्तदुद्भवः कार्योद्भवः ।
न सामान्यात्। तत्कार्यमडकुरादिकं । किं भूतं । अनेकमित्यादि। अनेकस्य सहकारिणः साधारणं। अनेकसहकारिजन्यमित्यर्थः। एकविशेषापायपीति सहकारिणामन्यतमभेदापायेपि। अनेन व्यतिरेकमाह।
पुनरित्यादिनान्वयं। तस्माद् विशेषेष्वेवान्वयव्यतिरेको कार्यस्य न तू सामान्ये। तदाह (1) नन्वविकल इति। एकविशेषस्थितावविकलेप्यभिन्ने रूपे तत्कार्यन्न भवति । कार्य हीत्यादिनैतदेव विभजते। कुतश्चि भाव उत्पाद: स एव धर्मः । स यस्यास्ति तत् तद्भावमि। कदाचित् यत्र भवति तत्तस्य जनकस्य वैकल्यान्न चाभिन्नस्य रूपस्य जनकाभिमतस्य सहकारिणां मध्ये। एकस्य स्थितावपि वैकल्यमस्ति । अविकले तस्मिन सामान्यरूपे कार्यमभवत तस्य सामा