________________
४. सामान्यचिन्ता
. ३२१ भावात्, अन्येन न स्यादुत्पन्नम्।
यदि तज्जनकस्वभावो यः स एवान्यस्यापि स्यात्, तेन स्वभावेन तत्र ततोऽभिन्नः स्यादित्यस्ति स्वभावान्वयः ।
यद्येकात्मतयाऽनेक: कार्यस्यैकस्य कारकः ॥१६६।।
आत्मैकत्रापि सोस्तीति व्यर्थाः स्युः सहकारिणः । यद्यनेक एकस्वभावत्वात् एकस्य कारकः, तेषामभिन्नः. स्वभावः स हि एकसन्निधानेऽप्यस्ति हेत्ववैकल्यात्,' एकोऽपि जनकः स्यात् ।
470a नापैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः ॥१६७॥ नहि तस्याभिन्नस्वभावस्य अर्थान्तरेऽपि विशेषोऽस्ति। विशेषे सत्य भेद
स्वभावो न हि सोन्यस्य पृथिव्यादेरस्ति ।' योस्ति बुद्ध्यारोपितो व्यावृत्तिलक्षणो न II8a स जनकः। कस्माद् । व्यतिरेकस्यान्यव्यावृत्तिलक्षणस्य निःस्वभावत्वात् । तस्माद् बीजस्वलक्षणमेव जनकं यच्च जनकरूपन्तदेव वस्तु। तज्जनकं चेत्यङकुरजनक स्वलक्षणं । अपरत्रेति पृथिव्यादौ । अपरं पृथिव्यादिकमंकुरं जनयेत् । स हीत्यादि । हि शब्द एवकारार्थः । तस्येति बीजस्य । अन्यस्य पृथिव्यादेः (।) स पृथिव्यादिस्ते'नांकुरजननेन बीजस्वभावेन ततो बीजादभिन्नः स्यात् । इत्यस्तिस्वभावान्वयः। तेन केचित् स्वभावभेदेपि प्रकृत्यैककार्यकारिण इन्द्रियादिवदित्ययुक्तमुक्तमिति।
यदीत्यादिना सि द्धा न्त वा दी। आत्मैकनापीति। कारणकलापस्य येनाभिन्नेनात्मना जनकत्वमिष्यते। स आत्मा तेषां कारणा' नाम्मध्ये एकत्रापि कारणेस्तीति । तेनैकेन कार्यं कृतमिति कृत्वा व्यर्थाः स्युः सहकारिणः।
ननु व्यावृत्तिवादिनोप्यन्त्यावस्थायां सर्वेषां जनकत्वात् कारणान्तरवैयर्थ्यं ।
नैतदस्ति। समुदितानामेव तेषान्तादृशं सामर्थ्य क्षणिकानां। हेतुप्रत्ययायत्तसन्निधित्वात् । परस्य तु नित्यवादिनः सदा तद् रूपमस्तीति भवेत्कारणान्तराणामानर्थक्यं। अत एवोक्तमेकत्रापि सोस्तीति कारणान्तरविकलावस्थायामपीत्यर्थः।
यदीत्यादिना व्याचष्टे । अनेकः पदार्थो योकस्वभावत्वादेकस्य कार्यस्य कारकः जनकः स तेषां कारणाभिमतानामभिन्नो जनकः स्वभाव एककारणसन्निधानेप्यस्ति। ततश्च सर्वस्यामवस्थायामवैकल्यात् कारणस्य यत्र तत्रावस्थितिरेको पि जनकः स्यात्। (११६६-६७)
एतदेव द्रढयन्नाह। यस्मादित्यादि। एकस्मिन्नपि बीजादौ सन्निहिते नापैत्यभिन्नं तत्कार्यजननं सामान्यरूपं। विशेषा व्यक्तिभेदा अपायिनः। न हि तस्या
४१