________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१६६ )
ख. सांख्यमतनिरासः
न निवृत्तिं विहायास्ति यदि भावान्वयोऽपरः ।। १६५|| एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः ।
यद्येते भावा निवृत्त्यन्यान्वयिस्वभावेन केनचित् शून्याः, बहवो भावा एककार्यतायां न स्युः । यो हि तज्जननस्वभावः, न हि सोऽन्यस्य । योऽस्ति न स जनकः, व्यतिरेकस्य निःस्वभावत्वात् । यज्जनकं तद् वस्तु, तज्जनकस्यान्यत्रा
३२०
कस्माद् वृक्षत्वं धवादिष्वेव वर्त्तते न गवादिष्विति पृष्टेन परेणैतदेव वक्तव्यं भावशक्तिरेव सा धवादीनां येन त एव वृक्षत्वं प्रति प्रत्यासन्ना न गवादय इति । तदा तुल्ये भेद्ये यया प्रत्यासत्त्या भावशक्तिलक्षणया जातिः क्वचित् स्वाश्रयाभिमतेऽर्थराशौ । प्रसप्र्पति । व्याप्य वर्त्तते । सेव भावशक्तिरन्वयिशब्दनिबन्धनमस्तु । किं सामान्येन कल्पितेन (1) तेन यदुच्यते।
" विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यन्तेन तद् ध्रुवं । ता हि तेन विनोत्पन्ना मिथ्या स्युर्विषयादृते । न त्वन्येन विना वृत्तिस्सामान्यस्येह दुष्यती 'ति ।
तदपास्तं । न यथा सामान्यमन्तरेण केषुचित् सामान्यवृत्तिरिष्यते । तथा सामान्यम्विना सामान्यबुद्धिरिष्यतामिति परोभ्युपगमं कार्यते । येन ता हि तेन विनोत्पन्ना मिथ्या स्युरिति परस्योत्तरं स्यात् । केवलं यथा परस्य सामान्यमन्तरेण केषुचित् पदार्थषु यया प्रत्यासत्त्या सामान्यवृत्तिः सैव भ्रान्तान्वयिज्ञानशब्दनिमित्तमस्तु किं सामान्येनेत्ययमर्थोत्र विवक्षित इति न कश्चिद्दोषः ।
तस्मात् स्थितमेतद् (।) व्यावृत्तेरेवैकत्वाध्यवसायाद् भावेष्वन्वयो नान्यस्येति । (।१६४-६५।।)
अत्र सांख्यः प्राह । न निवृत्तिमित्यादि । भावान्वयो भावानामेकरूपत्वं । अपर इति वस्तुभूतः । तदेकस्य बीजस्य यत्कार्यन्तदन्यस्य पृथिव्यादेर्न स्यात् । कस्मात् (1) तयोर्बीजपृथिव्योरत्यन्तभेदतः । ( । १६५-६६ )
यद्येत इत्यादिना व्याचष्टे । एषामिति भावानां यथा बीजादेकादीनामेकमंकुराख्यं कार्यं । यो हीत्यादिना तदेव साधयति । यो हि तस्य बीजस्यांकुरजनन
1 Śloka, Ākrti 37, 38