________________
४. सामान्यचिन्ता
३१६
न ह्यनिमित्तं तद् । वासना' विशेषनिमित्तत्वात्, तथाभूतं वाह्यं न प्रकाशितमपीत्युक्तम् । न चासति तस्मिन्न भवितव्यम् । सुप्ततैमिरिकाद्युपलब्धेषु श्रर्थेषु प्रभावेषु ग्रंथ' वासनारोपितरूपविशेषे तथा विकल्पस्योत्पत्तेः । न च ते तदुत्पत्त्या - 469b सत्सु सर्वत्र सर्वाकारा भवन्ति । विभागेनैव तथैवोपलब्धानां विकल्पनात् । एकभावेनात्र स्वभावेनापि एकज्ञानकार्यं क्वचिद् भाव एव भेदादिति संक्षेपः ।
श्रन्यच्च-
तुल्ये भेदे यया जातिः प्रत्यासत्त्या' प्रसर्पति ॥ १६४॥ कचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ।
-- इति संग्रहश्लोकः ।
अत
न ह्यनिमित्ते भवदित्यत्र बाह्यनिमित्ताभावादनिमित्तमिति द्रष्टव्यं । नानिमित्ते इति सिद्धान्त वा दी । अविशिष्टनिमित्ते । न भवत इत्यर्थः । एवाह । वासनाविशेषनिमित्तत्वादिति । यथाभूतदर्शनद्वारायाता वासना सा तत्रैवाध्यवसिततद्भावम्विकल्पं जनयति । न सर्वत्रेति समुदायार्थः । तथाभूतमित्यन्वयि रूपं । न चासति तस्मिन्नन्वयिनि बाह्ये निमित्ते विकल्पेन न भवितव्यम्भवितव्यमेव ।
.
1
तदेव सुप्तेत्यादिना साधयति । सुप्तश्च तैमिरिकश्च ताभ्यामुपलब्धेष्वर्थेषु गवादिषु केशमक्षिकादिषु च यथाक्रमं । अभावेषु शशविषाणादिषु । समवायवासना । यथा स्वं सिद्धान्तं संकेतवासना तद्बलेनारोपितरूपविशेषे प्रधानकार्यादिषु । तथा विकल्पोत्पत्तेरन्वयिनो विकल्पस्योत्पत्तेः । न ह्येतेषु यथोक्तेषु बाह्यमन्वयि 117b रूपमस्ति । स्वप्नतिमिरोपलब्धानामेवासत्त्वात् । तेषां चासत्त्वं तृतीये परिच्छेदे ( ३।८५ ) प्रतिपादयिष्यते । सिद्धान्तसमारोपितस्य तु परस्परविरोधिनोर्युगपदेकत्रेत्यादिना प्रतिपादितमेवासत्त्वं । न च ते विकल्पाः स्वप्नाद्युपलब्धेष्वसत्सु वस्तुभूतान्वयिरूपमन्तरेणाप्युत्पद्यंत इति सर्वत्रार्थाः सर्वाकारा भवन्त्यपि तु प्रतिनियता एव । नियमहेतुं चाह । विभागेनैवेत्यादि । तथैवोपलब्धानामिति विभागेनोपलब्धानां । विभागेनैव विकल्पनात् । सुप्ततिमिरावस्थायान्तावद् भ्रान्तज्ञानारूढानामर्थानां विभागेनोपलम्भः । सिद्धान्तारोपितानामपि यथास्वं सिद्धान्तश्रवणकाले । शशविषाणमित्यादिष्वपि । शशविषाणं बन्ध्यासुत इति व्यवहारव्युत्पत्तिकालेऽनादित्वाद् व्यवहारवासनायाः। उक्तं चात्रेत्यादि । ‘“एकप्रत्यमर्शार्थज्ञानाद्येकार्थसाधन” (१।७५ ) इत्यत्र ।,
अपि च यथा धवखदिरादयः परस्परभिन्नास्तथा गवादयः । तत्र तुल्ये भेदे