________________
३१८ प्रमाणवात्तिकस्ववृत्तिटीका (१।१६४) ____ तत् तेष्विति न वा चेतः, यथा तेष्वपीति- यथा तेषु न वृत्तिरिति परीक्षितम् ।
किन्तर्हि ते अनिमित्ते न स्याताम्। नानिमित्ते, अथ किमिति चेत् बाह्यतत्त्वं निमित्तेन। यथास्वं यो यो वासनाप्रबोधात् विकल्पोत्पत्तिः, ततः शब्दा भवन्ति । न पुनर्विकल्पाभिधानयोर्वस्तुसत्ताश्रय इत्युक्तप्रायमेतत्। यथास्वं दर्शन वासनावशात विरोधिरूपसमावेशेन परापरदर्शनेऽपि तदन्वयिदर्शनात् । न च तत्र तन्निबन्धनस्वभावः क्वचिदप्यस्ति। परस्परविरोधिनोरेकत्र स्थित्यसम्भवात् ।
अनियमेन स्याद् । तदनिमित्तं भवद्धि क्वचिद् भवेत् क्वचिच्च न भवेदिति न निश्चेयम्।
II7a प्रसाधितमथ च तत्र प्रवर्तेते अन्वयिनौ ज्ञानशब्दौ। तथान्यत्राप्यन्तरेण सामान्यन्तौ
भिवष्यतः। ___ तद्वदित्यादि परः। तेष्विति पाचकादिषु सामान्यम्विना कथमन्वयिनोर्ज्ञानशब्दयोवृत्तिरिति। ततोन्वयज्ञानशब्दवृत्तेः पाचकादिष्वपि पाचकत्वादिसामान्यमस्तीति चिन्तितमेतदनन्तरं। तथा तेषु पाचकत्वादि सामान्यं स न सम्भवतीति।
यद्यन्वयि रूपन्नास्ति तत्किमिदानीमनिमित्त ते शब्दज्ञाने स्यातां। नेत्यादि सिद्धान्त वा दी। अस्त्येव तयोनिमित्तं यत् परेणेष्यते तस्य प्रतिक्षेपः। तदेवाह। किन्तीत्यादि। वस्तुभूतं सामान्यम्बाह्यतत्वं निमित्ते ते न भवतः। किन्तर्हि तयोनिमित्तमित्यत आह। यथास्वमित्यादि। यो य आत्मीयो वासनाप्रबोधस्तस्मादन्वयिनो विकल्पस्योत्पत्तिः। ततो विकल्पोत्पत्तेः सकाशाद यथाविक-ल्पं शब्दा भवन्ति। न पुनर्विकल्पाभिधानयोर्वस्तुसत्ता । अन्वयिपदार्थसत्तासमाश्रय इत्यक्तप्रायमेतत। अवश्यं चैतदेष्टव्यं। तथा हि यथास्वं समवायवासनावशात् सिद्धान्ताश्रयेण ज्ञानवासनानुरोधाद् विरोधिरूपसमावेशेन परस्परविरुद्धरूपाध्यारोपेण प्रधान कार्यमी श्व र कार्यमहेतुकं सम्वृत्तिमात्रं जगदित्येवं सर्वभेदेष्वन्वयिनोस्तयों रिति ज्ञानाभिधानयोः। अपरापरदर्शनपीति परस्परभिन्नानामर्थानान्दर्शनेपि। न च तत्रेति प्रधानादिकार्यत्वेन परस्परविरुद्धेन रूपेण कल्पितेष्वर्थेषु । तन्निबन्धनः शब्दज्ञानयोनिबन्धनः । कस्मान्नास्तीत्याह । परस्परविरोधिनोरित्यादि।
अनियमेनेत्यादि परः। सर्व सर्वत्रान्वयि ज्ञानमभिधानं च स्यात्। एतदेव साधयन्नाह। न ह्यनिमित्तमित्यादि।
ननु यथास्वं वासनाप्रबोधाद् विकल्पोत्पत्तेरित्यादिना तयोरनिमित्तत्वं प्रतिषिद्धमित्यनवकाशमेव चोद्यं । एवम्मन्यते। आन्तरमेव निमित्तन्तयोरिष्यते तस्य च निमित्तस्य केनचिदासत्तिविप्रकर्षाभावात्। सर्वत्र सर्वविकल्पहेतुत्वं स्यादिति।