SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता क्रियोपकारापेक्ष्यस्य व्यञ्जकत्वेऽविकारिणः ॥१६३॥ नापेक्षाऽतिशयेप्यस्य क्षणिकत्वात्क्रिया कुतः । - कर्मोपकारमपेक्ष्य द्रव्यस्य पाचकत्वव्यञ्जकं चेत्, स्वभावाश्रयोऽयमनाधेयातिशयाद् अविशेषाधायिनि काऽपेक्षा ? अतिशय वा कर्मणः क्षणिकरत्वात् । 469a प्रतिक्षणं स्वभावभूतस्यान्यस्यान्यस्यातिशयस्योत्पत्तेस्तदपि क्षणिकं स्यात् । ततः स्वोत्पत्तिस्थानविनाशिनः कुतः क्रिया, कमपेक्ष्य व्यञ्जकं स्यात्। नन कथमेकवस्तुत्वाभावे वस्तुनि ज्ञानशब्दो प्रवर्तेते, यथा पाचकादिष्विति तथा। सा च प्राडनास्तीति न प्राक सामान्याभिव्यक्तिरित्यत आह। क्रियोपकारेत्यादि। पाकादिलक्षणा क्रिया। तत्कृतो य उपकारस्तदपेक्षस्य सामान्यं प्रति व्यञ्जकत्वेऽभ्युपगम्यमाने। तस्य द्रव्यस्याक्षणिकत्वादविकारिणोनपेक्षा सह• कारिणं प्रति। अथ विक्रियेत तदाप्यतिशयस्य द्रव्यस्य क्षणिकत्वमापद्यते। क्षणिकत्वाच्चोत्पादानन्तरं ध्वंसिनः कुतः क्रिया। येन तदुपकारापेक्षं जातेwञ्जकं स्यात्। कर्मोपकारेत्यादिना व्याचष्टे। अधिश्रयणादिलक्षणो व्यापारः कर्म। तत्कृत उपकारोतिशयस्तमपेक्ष्य स्थिर स्वभावस्य पूर्वस्वभावादचलतोनतिशयात् स्वभावान्तरानुपादानात्। अविशेषाधायिनि कर्मणि। कापेक्षा। नैव । अतिशय वा द्रव्यस्य क्रियाकृतेभ्युपगम्यमानेऽतिशयाधायकस्य कर्मणः क्षणिकत्वात् तस्याप्युपकार्यस्य द्रव्यस्य स्वभावभूतेनान्येनातिशयेनोत्पत्तव्यं । । यदि क्रियाकृतोऽतिशयो न स्वभावभूतो द्रव्यस्य तदर्थान्तरस्य करणाद् द्रव्यं नैवोपकृतं स्यात् । तस्माद् यथाक्रियाक्षणं प्रतिक्षणं स्वभावभूतस्यान्यान्यस्यातिशयोत्पत्तस्तदपि द्रव्यं देवदत्तादि क्षणिकं स्यात । तत इति क्षणिकत्वात्। स्वोत्पत्तिस्थानविनाशिनः स्वस्मिन्नेवोत्पत्तिदेशे विनाशिनः पुंसः कृतः पाकलक्षणा क्रिया । यदपेक्षन्तत् क्रियासापेक्षं पाचकादिद्रव्यसामान्यस्य व्यञ्जकं स्यात। ननु च प्रथमादिक्रियाक्षणद्वारेण द्रव्यस्य क्षणिकत्वं क्रियाऽभावे च कथं क्षणिकत्वमिति चेत (1) न। यतः क्रियासम्बन्धोत्पन्नानां क्षणानामन्यस्याः क्रियायास्सामान्याभिव्यञ्जिकाया अभावादित्यर्थः।। तस्मात् स्थितमेतद् यथा वस्तुभूता जातिर्नास्तीति । (१६३-६४) कथन्तीत्यादि परः। यथेत्यादि सिद्धान्त वा दी। यथा पाचकादिष पाचकत्वादिसामान्यन्नास्ति तथा
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy