________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।१६३ )
अथापि पाचकत्वमिति सामान्यस्य कादाचित्कत्वे सत्यर्थे तत्समवायस्य अकादाचित्कत्वात् । तत्प्रथमत्वे सत्तादिवद् व्यज्येत । यावन्ति श्रर्थे सामान्यधर्माणि तानि श्रस्योत्पादेन सह समवयन्ती 'ति ग्रन्थः ।
३१६
तद्वयतिक्रमेऽविशेषात् पश्चादपि तत्समवायो न स्यात् । तत्सम्बन्धिस्वभाववैगुण्यात्, स तस्य प्रागभावे तत्रैव च स्वभावे' स्थितस्य स्यादिति दुरन्वयमेतत् ।
द्रव्ये पाचकत्वादि । किन्तु प्रागनभिव्यक्तमतो न शब्दज्ञानयोर्निमित्तमित्यत आह । व्यक्तमिति । प्रागेवाभिव्यक्तम्भवेदित्यर्थः । सत्तादिवत् । यथा सत्ताद्रव्यत्वादि । यावद्द्रव्यभावि । अर्थक्रियायाश्च प्रागेव योग्यदेशावस्थितं द्रव्यं ।
अथापीत्यादिना व्याचष्टे । सत्यर्थे जात्याश्रये तत्समवायस्य सामान्यसमवायस्याकादाचित्कत्वात् सर्वकालभावित्वात् । एतदेव द्रढयन्नाह । यावन्ति हीत्यादि । अर्थे जात्याश्रये । समवायधर्माणि सम्बन्धयोग्यानि तानि सामान्यानि । अस्यार्थस्य य उत्पादः । तेन सह समवयन्ति । अस्मिन् सामान्याश्रय इति विभक्तिविपरिणामेन सम्बन्धः । उत्पादसमकालमेव द्रव्येण सह सम्बध्यत इति यावत् । इति समयः । सामान्य वा दि नः सिद्धान्तः । यदाहो द्यो त क रः ( 1 ) “प्राग्गोत्वान्नासौ गौर्नाप्यगौरिति। किङ्कारणम् (1) अभावे तौ विशेषणप्रत्ययौ न च विशेषणप्रत्ययौ विशेष्यसम्बन्धमन्तरेण भवतो न च प्राग् गोत्वयोगाद् वस्तु विद्यते । न 116b चाविद्यमानं गौरिति वाऽगौरिति वा शक्यते व्यपदेष्टुं । यदैव वस्तुत्पद्यते तदैव गोत्वेनाभिसम्बध्यत इति । तथा न सतस्सत्तासम्बन्धो नासतः । यदैव च वस्तु तदैव सत्तया सम्बध्यत" इति ।
अथ सिद्धान्तमतिक्रम्य पश्चाद् भावित्वं सामान्यस्य कल्प्यते । तदा तद्वयतिक्रमे सिद्धान्तव्यतिक्रमे । तस्य सामान्यस्याश्रयस्य द्रव्यस्य पश्चादप्यविशेषान्न तत्समवायः स्यात् । तेन सामान्येन समवायो न स्यात् ।
यथा फलैकस्वभावस्यापि रक्तता प्रा न भवति । पश्चाच्च भवति । तद्वत्पुरुषस्य पाचकत्वादिसामान्यमित्यत आह । तत्सम्बन्धीत्यादि । तत्सम्बन्धिस्वभाववैगुण्यात् । पाचकत्वादिसामान्यसम्बन्धिस्वभाववैगुण्यात् । स इति सामान्यसमवायः । तस्येति पुंसः । न ह्यविगुंणे स्वभावे स्थितस्य तत्सम्बन्धो न भवेत् । तत्रैव च सामान्यसमवायविंगुणे स्वभावे स्थितस्य द्रव्यस्य पश्चात् सामान्य समवायो भविष्यतीति दुरन्वयन्दुर्बोधमेतत् । फलस्याप्याम्रादेः पूर्वं पश्चाच्च यद्येकस्वभावता । तत्रापि तुल्यं चोद्यं । सामान्यसम्बद्धमेव तदा द्रव्यं क्रियोपकारापेक्षन्तु सामान्यं व्यनक्ति । (१६२-६३)
1 Nyāyavārtika.