________________
४. सामान्यचिन्ता
न ह्यन्यैव काचित् पाकादिशक्तिः, तस्याः पाकाद्यर्थक्रियासपयोगेन द्रव्यस्यानुपयोगि'त्वप्रसङ्गात् । यदि तस्यां तदुपयोगः, किमिति शक्तिकृत्यम् । शक्तावुपयोगाय 468b शक्त्यन्तरस्य व्यतिरेकिणोऽभ्युपगमेऽतिप्रसङ्गात् द्रव्यमेवोपयुज्यत इति वाच्यम् ।
तस्मात् उपयोगे शक्तौ अर्थक्रियायामेवोपयुज्यत इति किन्नेष्यते, अन्तराले किमनथिया शक्त्येति तत्कार्यद्रव्यमेव तदन्वयात्, तत्रान्वयी शब्दो न स्यात् ।
सामान्यं पाचकत्वादि यदि प्रागेव तद् भवत् ॥ १६२॥ व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषतः ।
३१५
भिन्नैव शक्तिरिति चेदाह । न हीत्यादि । न हि द्रव्याद' न्यैव शक्तिर्यदि स्यात्तदा 116 a तस्या एकशक्तेः पाकाद्यर्थक्रियासुपयोगेन कारणेन द्रव्यस्य शक्त्याधारस्यानुपयोगित्वप्रसङ्गात् । तस्यां पाकादिनिर्वत्तिकायां शक्तौ तस्य द्रव्यस्योपयोगः । एवमपि पारम्पर्येण पाकादौ द्रव्यमुपयुक्तं स्यादिति भावः ।
किमित्यादि सिद्धान्त वा दी । अर्थान्तरभूतया शक्त्या न किञ्चित् प्रयोजनं । तथा हि पाकादिनिर्वत्तिकायां प्रथमायां शक्तौ द्रव्यं यया शक्त्योपयुज्येत । सापि शक्तिर्यदि व्यतिरिक्ताऽभ्युपगम्येत तदा पाकादिनिर्वत्तिकायां शक्तौ द्रव्यस्योपयोगाय शक्त्यन्तरस्य द्रव्याद् व्यतिरेकिणोऽभ्युपगमेऽतिप्रसङ्गात् । तस्यामपि शक्तावुपयोगायापरा व्यतिरिक्ता शक्तिः कल्पनीया तत्राप्यपरेत्यनवस्था स्यादित्यर्थः । तस्मादन्तरेण व्यतिरिक्तं शक्ति द्रव्यमेव प्रथमायां पाकादिनिर्वित्तिकायां शक्ताबुपयुज्यत इति वाच्यं । एवं च द्रव्यस्योपयोगे शक्ताविष्यमाणे । तद्द्रव्यमर्थक्रियायां पाकादिलक्षणायामेवोपयुज्यत इति किशेष्यते । द्रव्यस्यार्थक्रियायाश्चान्तराले किमafreen शक्त्या कल्पितया ।
यत एवन्तस्मात् पाकाद्यर्थक्रियाशक्तिरित्यनेन द्रव्यमेवोच्यते । किम्भूतन्तत्कार्यं तत्पाकादि कार्यं यस्य । तच्च द्रव्यं व्यक्त्यन्तरं नान्वेतीति कृत्वा । ततो द्रव्यात् पाचकः पाचक इत्यन्वयी शब्दो न स्याज्ज्ञानञ्च । शब्दग्रहणं तूपलक्षणं । (१६१-६२।।)
पाचकादिषु द्रव्येषु पाचकत्वादिसामान्यमस्ति तदन्वयि शब्दज्ञाननिबन्धनमिति “चेदाह । सामान्यमित्यादि । सामान्यं पाचकत्वादि यदीष्यते । तदा पाकादिनिर्वर्त्तनशक्त्यवस्थायाः प्रागेव द्रव्यस्योत्पत्तिसमकाल एव द्रव्यसमवेतन्तद् भवेदित्यर्थः । तथा च तदहर्जातो'पि बाल: पाचकादिज्ञानाभिधानविषयः स्यादिति भावः । नो चेत् प्रागेव भवेत् तदा पश्चादपि न भवेत् । तस्य द्रव्यस्याविशेषात् । अस्त्येव सर्वकालं