SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका ( १।१६२ ) अन्यथाऽतिप्रसङ्गः स्यात् । तदतीतानागतयोनिमित्तीकृत्य तयोः प्रवृत्तिरिति चेत्-कर्मापि नाज्ज्ञानाभिधानयोः ॥ १६९ ॥ ३१४ न निमित्तम् । तद्, (ते) अनैमित्तिकतापत्तेः; प्रसत् शक्तिविकलं कथं निमित्तं स्यात् । तस्यैव वस्तुनः क्रियाकरणलक्षणत्वात् ततः प्रतीतानागतकर्मनिरोधो नानुपलब्धिनिमित्तम् । व्यक्त्यादिकमन्यतु नेष्टत्वात्, ते अनिमित्ते स्याताम् । तथा च न जातिसिद्धिः, तस्या ज्ञानाभिधानयोर्निमित्तत्वेनेष्टत्वात् । यदि शक्तिः पाचकादिशब्दनिमित्तं न तु कर्म न च शक्तिरनन्वयात् । सामान्ये, सम्बन्धः । किं कारणं ( 1 ) तयोरित्यादि । तयोर्ज्ञानाभिधानयोः । असतीत्यादिना व्याचष्टे । उपाख्यायते प्रकाश्यते वस्त्वनयेत्युपाख्यार्थक्रियाशक्तिः । सा निर्गता यस्मादसतस्तत्तथोक्तं । असद् यस्मादर्थक्रियाशक्तिविकलं । तदेवंभूतं कथं शब्दज्ञानयोनिमित्तं स्यादित्यर्थः । अथातोपि हेतुत्वमिष्यते तदा तस्य वस्तुत्वमेव स्यान्नासत्त्वं । किङ्कारणमित्याह । कार्येत्यादि । लक्षणशब्दः स्वभाववचनः । तदिति तस्मात् । अतीतं प्रच्युतरूपं । अनागतमसंप्राप्तरूपं । कर्मणः सकाशादन्यच्च व्यक्त्यादिकं ज्ञानाभिधानयोर्निमित्तत्वेन नेष्टं सामान्यवादिना । " व्यक्तिः कर्माश्रयो द्रव्यं । " आदिशब्दात् संकेतवासना तत्परिपाकयोर्ग्रहणं । ते इति शब्दज्ञाने । तथा चेत्यन्वयिनोः पाचकादिशब्दज्ञानयोरनिमित्तत्वे सति न जातिसिद्धिः । चशब्दात् नित्यं सत्त्वमसत्त्वम्वा शब्दज्ञानयोः स्यात् । कस्मान्न जातिसिद्धिरित्याह । तस्या इत्यादि । तस्या जातेरभिन्नस्य ज्ञानस्याभिधानस्य च निमित्तत्वेनेष्टत्वात् । यथा च पाचकादिविषये । ते अनिमित्ते प्रवर्त्तेते तथा गवादावपीति केन निबन्धनेन जाति: कल्प्येत । शक्तिरित्यादिना पक्षान्तरमाशंकते । कर्माश्रयस्य द्रव्यस्य शक्तिः । शब्दग्रहणमुपलक्षणं (1) पाचकादि ज्ञानस्यापि शक्तिर्निमित्तं । नेत्यादिना प्रतिषेधति । न पाचकादिशक्ति: पाचकादिशब्दनिमित्तं (1) किङ्कारणं ( 1 ) शक्ते - द्रव्याव्यतिरेकेण द्रव्यवदेवानन्वयादनन्वयिनश्चार्थस्यान्वयिज्ञानाभिधानं प्रति निमित्तत्वानभ्युपगमात् । अभ्युपगमे वा जातिकल्पनाया निर्निबन्धनत्वप्रसङ्गात् ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy