________________
४. सामान्यचिन्ता
३१३
पाकः पाक इति ततः स्यात् न च पाचक इति। तस्य सा कर्मनिमित्तता प्रोक्ता। अन्यच्च
. स्थित्यभावाच्च कर्मणः ॥१६०॥ न ह्यनित्यं कर्म सर्वत्र । तस्य प्रत्ययस्य कर्मनिमित्तत्वे निरुद्धे कर्मणि पाचक इति नोच्येत, पचत एव कर्मभावात् । तत एव--
असंबन्धान सामान्य; नायुक्तं शब्दकारणात् ।
अतिप्रसंगात् ; असंबंधात न सामान्यं शब्दहेतुताऽतिप्रसंगात् नासम्बद्धम् । तत एव कर्मणः सामान्यं न कर्माविशेषात् । एकं कर्म तत्सामान्यं हि न कर्म कर्बभावात् (प्राकृत्यभावात)। प्राश्रयसम्बन्धोऽपिन तत्र। तथा हि असम्बन्धात न शब्दज्ञानकारणम्।
उक्तमिदमयुक्तन्तूक्तं। जातिसम्बन्धेपि कर्मणस्तथैव भिन्नत्वात्। किञ्चेत्यादिनोपचयहेतुमाह। तस्य पाचकाद्यभेदप्रत्ययस्य कर्मनिमित्तत्वेऽभ्युपगम्यमाने । निरुद्धे कर्मणि पुरुषः पाचक इति नोच्यत । उच्यते च योग्यतामात्रेण (1) ततो न वस्तुभूतक्रियानिमित्तोयं व्यपदेशः। अतीतस्यापि कर्मणोस्तित्वाददोष इति चेदाह पचत एवेत्यादि' (1) यद्यतीतस्य सत्त्वं स्याद् वर्तमानवदुपलभ्येतोपलब्धिलक्षण- II5b प्राप्तं च कर्मेष्यते। ___स्यान्मतं (1) कर्मजातिः कर्मणि समवेता कर्मापि द्रव्ये समवेतन्ततः सम्बद्धसम्बन्धात् कर्मजातिव्यविषयस्य पाचकप्रत्ययस्य हेतुरिति चेदाह। तत एवेत्यादि । तत एवेति कर्मणो विनष्टत्वादेव न सामान्यस्य कर्मणा सम्बन्धः साक्षात्। नापि कर्मद्वारेण पारम्पर्येण द्रव्यसम्बन्धोस्यासम्बन्धात कारणान्न सामान्य पाचकाद्यभिधानप्रत्ययस्य हेतुः। असम्बद्धमपि हेतुरिति चेदाह। नेत्यादि। अयुक्तमित्यसम्बद्धं। शब्दग्रहणमुपलक्षणमसम्बद्धं सामान्यं न ज्ञानशब्दकारणमित्यर्थः । कुतः (1) अतिप्रसङ्गात् । गोत्वमप्यश्वज्ञानस्य हेतुः स्यात्। (१६०-६१)
विनष्ट हीत्यादिना व्याचष्टे। तत् सामान्यमिति कर्मसामान्यन्न कर्मणि समवेतन्तस्यासत्त्वात्। कर्माभावादेव कर्तरि पाचके पारम्पर्येणापि समवेतम् (1) अतः सम्बद्धसम्बन्धोप्यस्य सामान्यस्य द्रव्येण सह नास्ति। अन्यथेत्यसम्बद्धस्यापि ज्ञानादिहेतुत्वे। स्थित्यभावाच्च कर्मण इत्यादि यदुक्तं (1) तम (? द) तीतेत्या-. दिना पक्षान्तरमाशंकते। अतीतं यद्विनष्टं। अनागतं यद् भविष्यति कर्म। तयोरिति शब्दज्ञानयोः (1) कर्माप्यतीतानागतमसत्। ज्ञानाभिधानयोनिमित्तमिति
४०