________________
३१२ प्रमाणवात्तिकस्ववृत्तिटीका (१।१६०)
भेदान हेतुः कर्मास्य; पाचकाद्यभेदप्रत्ययस्य । यदि तेषां कर्मजात्यभेदाढेतुः,
न जातिः कर्मसंश्रयात् । गोत्वमिव गमनादिः अर्थान्तरसम्बन्धि जातिहि अर्थान्तरप्रत्ययहेतुश्चेत् पाचककर्मस्वपि कर्मजातिः, तत्कापि पाचकशब्देन न वाच्यम् । अथ किमिति 468a तत्कर्माश्रयस्य द्रव्यम् । कर्मजातिरपि सा'--
. श्रुत्यन्तरनिमित्तत्वात् ;
रुत्पद्यते। पाचकशब्दात् त्वपाचकव्यवच्छिन्नानुकारिण्येव बुद्धिरतो यथाव्यवच्छेद संकेतानुसारेण विशेषवती बुद्धिरेकत्राप्यविरुद्धा। एतच्च भेदान्तरप्रतिक्षेपाप्रतिक्षेपेत्यादिषु प्रतिपादितं। ___तस्मादित्यादिनोपसंहारः। यथा व्यक्तीनां भेदस्तद्वत् कर्मणोपि भेदाढेतोरस्य पाचकाद्यभेदप्रत्ययस्य न हेतु: कर्मेति सम्बन्धः। तेषां पाचकानां यानि कर्माणि पाकाख्यानि तेषु कर्मसु या पाचकत्वजातिः समवेता सैवाभेदाढेतुः पाचकाभेदप्रत्ययस्य। नेत्यादिना प्रतिषेधति। न जातिर्हेतुरिति प्रकृतं। किङ्कारणं (1) कर्मसंश्रयात् । कर्मणि समवेतत्वात्। द्रव्यादर्थान्तरं कर्म तत्सम्बन्धिनी। अर्थान्तर इति द्रव्ये। गोत्वमिवेति निदर्शनं । न हि गोत्वं शाबलेयादिसम्बन्धि। कर्कादिष्वश्वभेदेषु गोप्रत्ययहेतुः। पाचककर्मसु पाकाख्येषु कर्मजातिस्समवेता। न च तानि कर्माणीति पाकाख्यानि। शब्दग्रहणमुपलक्षणं। तथा पाचकप्रत्ययेन परि च्छिद्यन्ते। तस्य पाकाख्यस्य कर्मण आश्रयो द्रव्यं पाचकशब्देनोच्यते। न च तत्र द्रव्ये कर्मजातिस्समवेता।
एवन्तावदर्थान्तरसम्बन्धित्वं कर्मजातेराश्रित्य द्रव्यविषयं पाचकाभिधानप्रत्ययं प्रत्ययनिमित्तत्वमुक्तम् (1) (१५६-६०)
अधुना प्रकारान्तरेणाह। तस्येत्यादि। पाचकश्रुतेरन्या श्रुतिः श्रुत्यन्तरं । श्रुतिग्रहणमपलक्षणमेवं ज्ञानान्तरनिमित्तत्वात ।श्रत्यन्तरमेवाह। पाक इत्यादि । तत इति कर्मजातेः कर्मविषयस्याभिधानस्य प्रत्ययस्य च हेतुत्वात् कर्मजातेरित्यभिप्रायः ।
स्यान्मतं (1) न कर्मजातिः पाचकप्रत्ययं जनयति किन्तु कर्मजातिसमाश्रयात् कर्मैवेत्यत आह । तस्येत्यादि । तस्येति पाचकाद्यभेदप्रत्ययस्य । कर्भनिमित्तं यस्येति विग्रहः। प्रोक्तं व्यक्तिवद् भेदान्न हेतुः कर्मास्येत्यादि ।
ननूक्तं जातिसमाश्रयाद् भिन्नमपि कर्माभिन्नप्रत्ययहेतुरिति।