________________
४. सामान्यचिन्ता
३११
अभिन्नप्रत्ययस्य हेतुर्न स्यादथ एकसामान्य वांछा सा भिन्नकर्मणोऽपि अभिन्नं प्रत्ययं जनयेत् चेत्--व्यक्तिभिः कोऽपराधः कृतः, येन तास्तथा नेष्टाः । यदि तासामेकरूपत्वात्, अतदाकारविशेषवतीति व्यतिरेकप्रतीतिर्न स्यादित्यत्र यथाव्यतिरेक विशेषप्रत्यया अपि यथासंकेतं अर्थान्तरविवेकादित्युक्तम्। ततो व्यक्तिवत्--
वा सम्बन्धनीयं । प्रतिपाचकं कर्मणो भेदात् । येनापराधेन ता व्यक्तयस्तथेत्यभिन्नप्रत्यय हेतुत्वेन।
सत्यं (1) न कश्चिदपराधः किन्तु तासां व्यक्तीनामेकरूपत्वात् । तथा हि द्रव्यमेकरूपमनंशत्वात्। एतदेव चेदभिन्नप्रत्ययनिबन्धनं न तु ततो व्यतिरिक्तं धर्मान्तरन्तदा पाचकस्य पाचकत्वमिति व्यतिरेकप्रतीतिर्न स्यात। न हि तस्यैव ततो व्यतिरेको युक्तः । तस्याव्यक्तेराकारस्तदाकारस्तस्मादन्योऽभेदाकारस्तस्य विशेषः सोस्ति यस्यां सा अतदाकारविशेषवती। द्रव्याकारादन्याकारेत्यर्थः ।
एतदुक्तम्भवति । द्रव्येभ्य एव प्रत्ययो द्रव्यमित्येवमाकारः। ततोन्येनैवाकारेण पाचकप्रत्यय[ः प्रतिषेधप्रत्यय]स्स यदि द्रव्यनिमित्तमेव स्यात् तदा द्रव्यमात्रप्रत्ययाविशिष्ट: स्यात् । अथ किमर्थमतदाकारविशेषवतीत्युभयमुक्तमतदाकारेत्येव वक्तव्यं । विशेषवतीत्येव वा। उच्यतेऽभेदाकारेत्युक्ते द्रव्यस्याभाव इति प्रतिषेधप्रत्ययोप्यतदाकार इति शक्येत व्यपदेष्टुं न चासौ वस्त्वन्तरनिबन्धनः परेणेष्टः। विशेषप्रत्ययानामेव धर्मान्तरनिबन्धनत्वात्। विशेषग्रहणे च केवले क्रियमाणे। चैत्रप्रत्ययो मैत्रापेक्षया भवति विशेषवान्। न त्वतदाकारः । चैत्राद्यभिधानेन द्रव्यस्यैव प्रतिपादनात्। उभयोपादानात्त्वयमर्थो भवत्यद्रव्याकारश्चासौ प्रत्ययो वस्तुस्पर्शाद् विशेषवांश्चेति। तस्मात् तत्र द्रव्यव्यतिरिक्ते न निमित्तान्तरेण भाव्यमिति ।
उक्तमित्या चा र्यः। यथा व्यतिरेको गोर्गोत्वं पाचकस्य पाचकत्वमित्यादिको यथा च विशेषप्रत्यया अनन्तरोक्तास्तथोक्तमिति सम्बन्धः।। कथ मत्याह। IIja यथास्वमित्यादि। अर्थान्तरविवेकोन्तिरव्यवच्छेदः। यथास्वमिति यस्य शब्दस्य यथासंकेतं यो व्यवच्छेदस्तस्मादित्यर्थः। तथा हि पाचकशब्दोऽपाचकव्यवच्छिन्नम- - प्रतिक्षिप्तभेदान्तरं प्रतिपादयन् मिवचनः (1) पाचकत्वशब्दस्तु तमेव व्यवच्छिन्नं प्रतिक्षिप्तभेदान्तरमाहेति धर्मवचनः । ततो धर्मर्मिभेदकल्पनया पाचकस्य पाचकत्वमिति व्यतिरेकविभक्तिः प्रयुज्यते। एवं द्रव्यशब्दस्याप्यद्रव्यव्यवच्छिन्ने स्वभावे संकेतितत्वात् तदनुसारेणाद्रव्याव्यवच्छेदानुसारेणाद्रव्यव्यवच्छेदानुकारिणी बुद्धि