________________
३१०
प्रमाणवार्तिकस्ववृत्तिटीका ( १।१५.६ )
एवं प्रदीपेन घटवत् व्यङ्ग्या प्रसज्यते । केनचित् प्रकारेण एवं प्रतीतिमन्त्ररेणादृश्य467b रूपत्वात्। श्रन्य ेच्च, अनेन किमयुक्तमभिसमीक्ष्य एवं बह्वायास श्राश्रितः सामान्यवादिना परस्पर भेदात् । व्यक्तिव्यतिरेकिणीषु प्रन्वयिनः प्रत्ययस्यायोगात् । कथं-
पाचकादिष्वभिन्नेन विना 'प्यर्थेन वाचकः ॥१५९॥
नहि पाचकवाचकादीनामनन्वयिनामपि पचनपाचकेति शब्दप्रत्ययानुवृत्तिरस्ति । तेषु अभिन्नमन्यदेकं नास्तीति यैर्भेदेहि तथा प्रतीयेरन् । कर्मत्वादिति चेत्, अथ प्रत्ययादेव सोऽपि प्रत्ययः वरम् । अन्येन वा कर्मणा किं कृतः । भेदो हि
तदुक्तं । अभिन्न सामान्याख्येनार्थेन विना पाचकादिषु कथमेकः शब्दो वाचकः । वाचकग्रहणेन प्रत्ययोन्वयी गृहीत एव तेन विना शब्दस्याप्रवृत्तेः । अत एव वृत्तौ शब्दप्रत्ययानुवृत्तिरस्तीत्याह ।
द्यापि गवादिष्वनुवृत्तिप्रत्ययः पिण्डादिव्यतिरिक्तनिमित्ताद् भवति विशेषप्रत्ययानामनांकस्मिकत्वान्नीलादिप्रत्ययवत् । यत्तन्निमित्तन्तत्सामान्यमिति सामान्यसिद्ध प्रमाणे कृते स्वयमेवाशंकितम् ( 1 )
अथ मन्यसे यथा पाचकादिशब्दा अनुवृत्ताश्च भवन्ति न च पाचकत्वन्नाम सामान्यमस्ति ( 1 ) यदि स्यात् । भावोत्पत्तिकाल एवाभिव्यक्तं स्यात् तथा गवादिष्वनुवृत्तिप्रत्यया इति । न ( 1 ) हेत्वर्थापरिज्ञानात् । विशेषप्रत्ययानामनाकस्मिकत्वादित्यस्य हेतोः पिण्डप्रत्ययव्यतिरिक्तस्य प्रत्ययस्य निमित्तान्तरादुत्पाद 114b इत्ययमर्थः । न पुनः सर्वानुवृत्तिप्रत्ययः सामान्यादेव भवतीति । एवञ्च सति पचनक्रियाया यत्प्रधानं साधनन्तत्पाचकशब्देनोच्यते । तच्च प्राधान्यं पाचकान्तरेष्वप्यस्तीति न दोष इति वदता पाचकत्वादिसामान्यम्विना पाचकादिशब्दानां वृत्तिरिष्टैवो द्योतक रेणेत्यनेनाभिप्रायेणा चा ये णाप्युक्तं कथमित्यादि ।
न च पचनक्रियायां प्राधान्यनिमित्तायां पाचकादिशब्दप्रवृत्तिर्युक्ता । त निमित्तत्वे हि प्रधानं प्रधानमित्यनुगामी शब्दः स्यान्न पाचक इति । एवाह (1) न हीत्यादि । तेष्विति पाचकादिषु । अन्यदिति द्रव्याद् व्यतिरिक्तं । एवं सर्वशक्तिष्वभिशं येनैकेन ते पाचकादयो भिन्नास्सन्तोपि तथेत्यभेदेन प्रतीयेरन् ज्ञानेन। उपलक्षणमेतत् तथाभिधीयेरन् । पाचकेष्वधिश्रयणादिलक्षणं । पाठकेष्वध्ययनात्मक' मेवमन्येष्वपि यथायोग्यं । प्रत्ययादिनिमित्तमस्तीति चेत् । स इत्यन्वयी । प्रत्ययग्रहणमुपलक्षणमेवं शब्दोपि । अन्येन वेति कर्मणो हेतुना प्रयत्नादिना । भिन्नमित्यादिनैतदेव समर्थयते । तदिति बाह्योपन्यासे । तत्कर्मेति