________________
४. सामान्यचिन्ता
३०६
"
पश्येत् । न हि तस्यां दृश्यमानायां श्रदृष्टा सा एवं युक्ता, सामान्यस्य व्यक्ति -- र्व्यङ्ग्यत्वात् । व्यञ्जकविप्रयुक्तेषु देशेषु न दृष्टेत्यपि निराकृतं तत्र तथाभूतस्य व्यंग्यव्यञ्जकभावस्याभावात् । स्वयं प्रतीत्य परप्रत्यायनहेतुर्हि प्रदीपादिप्रकाशकः स्वरूपशून्ये देशे व्यंग्यो न स्वयं दर्शकः, नैवं व्यक्तिरपि सामान्यस्य, विपर्ययात् ।
कथं हि सा सामान्य व्यञ्जिका स्यात्, तत्प्रतिपत्तिद्वारेण दृश्या च स्यात् ।
अधुना न सा व्यक्त्यपेक्षिणीत्यादि व्याख्यातुमाह । व्यक्तिव्यङ्ग्यत्वादित्यादि । तस्य च मिथ्यात्वमनन्तरोक्तेनैव प्रतिपादितं । न ह्येकस्य दष्टादृष्टमस्त्यतोऽपूर्वपक्ष एवायं केवलन्दोषान्तराभिधानार्थं गजनिमीलनं कृत्वोपन्यस्तं । तथाभूत न्याय्यस्य । तत्रेति जातितद्वति । न्याय्यस्य व्यङ्ग्यव्यञ्जकभावस्याभावात् । किङ्कारणं । स्वेत्यादि । हि यस्मात् । स्वरूपशून्ये देशे प्रदीपादिरहिते देशे । स्वव्यग्यं घटादिकं । नैवं यथोक्तेन न्यायेन व्यक्तिर्व्यञ्जिका सामान्यस्य । 114a किङ्कारणम् (1) विपर्ययात् । यस्मादगृहीत्वापि व्यक्तिं सामान्यमादौ गृह्यत इतीष्यते परेण । सामान्यग्रहणद्वारेणैव व्यक्तेर्ग्रहणाभ्युपगमादतश्च व्यञ्जकाप्रतिपत्त्यापि व्यङ्ग्यस्य ग्रहणात् । व्यञ्जकधर्मातिक्रमो व्यक्तेः ।
एतदेवाह । कथं हीत्यादि । सेति व्यक्तिः सामान्यस्य व्यञ्जिका च स्यादिति सम्बन्धः । तत्प्रतिपत्तिद्वारेणेति सामान्यप्रतिपत्तिद्वारेण । सा व्यक्तिर्दृश्या स्यादिति विरुद्धमेतत् । एवमिति सामान्यदर्शनबलेन । व्यक्तेर्दर्शनेभ्युपगम्यमाने व्यङ्ग्या सा व्यक्ति: प्रसज्यते सामान्यञ्चेत्यध्याहारः । प्रदीपेन घटवदिति । तृतीयेति योगविभागात् समासः । सुप्सुपेति वा समासः । यथा प्रदीपेन घटो व्यङ्ग्यस्तद्वत्सामान्येन व्यक्तिर्व्यङ्ग्ग्या प्राप्तेर्थः । तत्प्रतिपत्तिमन्तरेण सामान्यप्रतिपत्तिम्विना व्यक्तेरदृश्यरूपत्वात् । अन्ये त्वाहुः । व्यङग्या च सैवं प्रसज्यत इत्यत्र चशब्देन सामान्यव्यञ्जकमित्येतदुपात्तं । ततः प्रदीपघटाभ्यां तुल्यमिति द्वन्द्वादेव वतिर्द्रष्टव्यः । पूर्वनिपातलक्षणस्य व्यभिचारित्वाद् घटशब्दस्यापूर्वनिपातः । प्रदीपव ेत् सामान्यं व्यञ्जकं । घटवन्च व्यक्तिर्व्यङग्या । प्रसज्यत इति वाक्यार्थ इति । अनेनेति सामान्यवादिना । सामान्यम्विना किमसम्भवत्कार्यमभिसमीक्ष्य । एवमित्युक्तविधिना । बह्वायासः । अशक्यसाधनतया बहुदुःखहेतुः । ( १५८-५९)
परस्परेत्यादि परः । भेदाद्विलक्षणत्वाद्धेतोर्व्यतिरेकिणीष्वनन्वयिनीषु । श्रन्वयिन एकाकारस्य प्रत्ययस्य प्रत्ययग्रहणमुपलक्षणमेवं शब्दस्य । सामान्यमन्तरेणायोगात् । सामान्यवाद आश्रित इति सम्बन्धः ।
कथमित्याचा र्यः । ये पाचकादिशब्दा न क्रियानिमित्तानिच्छन्ति तान् प्रत्ये