________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।१५८ )
अभ्युपगम्यापि व्यापिन्य- पि एकत्र व्यक्ता भेदाभावात् व्यक्तैव सर्वत्रेति व्यक्तिशन्येष्वपि देशेषु न दृश्येत ।
३०८
न च साजात्यपेक्षिणी । व्यञ्जका प्रतिपत्तौ ' हि न व्यंग्ये संप्रतीयते ।। १५८ ।। विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः ।
यो हि.स्वाश्रयेन्द्रियसंयोगापेक्षं सामान्यं श्राश्रयशून्येषु प्रदेशेषु नश्यत त प्रतिवक्ति, तस्यापि स्वाश्रयेन्द्रियसंयोग उपकारक इति ततस्तद्दर्शी यथास्थितां
ततो न नित्यन्दर्शनमदर्शनम्वा जातेरित्यत आह । स्वभावे त्यादि । नित्यत्वेनानाधेयातिशयत्वादिति भावः ।। ( १५७-५८ )
यदि जातेर्नास्ति व्यक्ति स्तत्कि व्यक्त्यैवैकत्र सा व्यक्तेत्याद्युच्यत इत्यत आह । अभ्युपगम्यापीत्यादि । व्यापिन्यपि जातिः । एकत्राश्रये व्यक्ता भेदाभावादेकत्वाज्जातेर्व्यक्तैव प्रकाशितैव सर्वत्र व्यक्तिशून्ये देशे । विजातीये च व्यक्तिभेदे । व्यक्तिशून्येष्वपीत्यपि शब्दाद् विजातीयेपि व्यक्तिभेदे । अपि च न च सा जातिर्व्यक्त्यपेक्षिणी । व्यञ्जिका व्यक्तिर्न्नापेक्ष्येत । व्यक्तेर्जातिव्यञ्जकत्वाभावादिति भावः । यदि हि व्यञ्जिका व्यक्तिमपेक्षेत । तदा व्यञ्जकाप्रतिपत्तौ न व्यङ्ग्यस्य प्रतीतिः स्यान्न हि प्रदीपाद्यप्रतीतौ घटादेः प्रतीतिर्भवति । तथेहापि व्यक्त्यप्रतीतौ न जातिप्रतीतिः स्यात् । सामान्यतद्वतोस्तु व्यङ्ग्यव्यञ्जकयोर्विषयः पुनः कस्मादिष्टः । तथा हि नागृहीतविशेषणविशेष्ये बुद्धिर्वर्त्तत इति नियमात् । प्रागेव सामान्यग्रहणमिष्टन्तद्द्वारेण तु व्यक्तेः । ततो व्यञ्जिकाया व्यक्तेर्ग्रहणमन्तरेणापि व्यङग्याभिमतस्य सामान्यस्य प्रतिपत्तिरिष्टेति विपर्ययः ।
यो हीत्यादिना व्याचष्टे । स्वाश्रयो मत्र समवेतं सामान्यं। सामान्यग्राहकमिन्द्रियं च तयोस्संयोगस्तदपेक्षा प्रतीतिर्यस्य सामान्यस्य तत्तथोक्तं । आश्रयशून्याः प्रदेशा विजातीय व्यक्त्यध्यासिता व्यक्तिशून्याश्च । तेषु न दृश्यते । यथोक्तसंयोगाभावात्। तस्याप्येवं वादिनः । क्वचिद् व्यक्तिर्दर्शने सत्यस्त्येवाश्रयेन्द्रियसंयोगो जातेः सर्वत्र स्थिताया उपकारक इति । तत आश्रयेन्द्रियसंयोगाद्धेतोस्तद्दर्शी क्वचिद् व्यक्तिभेदे जातिदर्शी यथास्थितां सर्वदेशव्यापिनीञ्जातिम्पश्येत् । यत्रैव व्यञ्जिका व्यक्तिस्तत्रैव जाते: स्वरूपं दृश्यं नान्यत्रेति चेदाह । न हीत्यादि । तस्यामिति जातौ । क्वचिद् व्यक्तौ दृश्यमानायान्तदीयामिति सामान्यसम्बन्धि | एकस्य दृष्टादृष्टविरोधात् । एवन्तावद् व्यक्तेर्व्यञ्जिकात्वमभ्युपगम्य च शब्दो - पात्तोर्थो व्याख्यातः ।