________________
४. सामान्यचिन्ता
# स्वस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तिमत् ! यत्रासौ वर्तते भावस्तेन संबध्यतेऽपि च ॥१५६॥ तद्देशिनञ्च व्याप्नोति किमप्येतन्माद्भुतम् !
यः सर्वत्रगत सामान्यवादी तस्यापि --
इति संग्रहश्लोकौ ।
व्यक्तौ वैकत्र सा वक्तचाऽभेदात् सर्वत्रगा यदि ॥ १५७॥ जातिर्दृश्येत सर्व्वत्र;
३०७
न जातेः कदाचिदभिव्यक्तिरिति निषिद्धमेतत् । तस्मात् अनपेक्षितपरो- 467a पस्कारा नित्यं वा श्येत, कदाचिद् प्रकृता वा; तत्स्वभावावस्थानात्, अन्यस्वभावस्य कुतश्चिदप्यनुत्पादात् ।
दित्युपहसति (१५६)
पूर्वव्यक्तिदेशादविचलदपि सामान्यन्ततोन्यदेशन्द्रव्यं व्याप्नोतीति चेदाह । यत्रेत्यादि । यत्र देशेऽसौ पश्चात्कालभावी भावो वर्त्तते । तेन देशेन सामान्यं न सम्बध्यते स्वव्यक्तिसर्वगतत्वाभ्युपगमात् । यत्र देशे सामान्यं न वर्त्तते तद्देशिनं च पश्चात् काल ैभाविनम्भावं व्याप्नोतीति न्यायातिक्रान्तत्वात् किमप्येतन्महाद्भुतमिति प्रकारान्तरेणोपहसति । न हि यो यत्र देशे न वर्त्तते स तद्देशं व्याप्नोतीति न्यायानुसारिणा शक्यमवसातुं ( १५७)
सर्वगतत्वकल्पनामपि निराचिकीर्षन्नाह । यस्येत्यादि । तस्यापि सर्वगतसामान्यवादिनः सर्वत्रगा यदि जातिस्तदैकत्र शावलेयादौ या तस्याव्यक्तिरभिव्यक्तिस्तया करणभूतया । सा जातिस्सर्वत्र व्यक्तिशून्येपि देशे । विजातीयव्यक्तिभेदे च व्यक्तैव प्रकाशितैवाभेदादेकत्वात् सर्वत्र व्यक्तिशून्येपि देशे दृश्येत ।
एतदुक्तम्भवति । यद्यपि व्यक्तिशून्ये प्रदेशे विजातीयव्यक्तौ च स्वव्यक्तेर्व्यञ्जिकाया अभवस्तथापि स्वव्यक्त्यभिव्यक्तेनैव रूपेण तत्रावस्थानाज्जातेरुपलम्भः स्यान्नो चेत् स्वभावनानात्वं प्राप्नोतीत्येकरूपा चेष्यत इति भावः । न जातेनित्याया अनाधेयातिशयत्वेन कदाचिदभिव्यक्तिरिति निषिद्धमेतत् । " वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यत" (१।१४६ ) इत्यत्रान्तरे । यत एवन्तस्मात् सा जातिनित्यमनपेक्षित परोपस्कारानाधेयातिशया । एवम्भूता यदि स्वभावेन स्वविज्ञानजननयोग्या । तदा नित्यन्दृश्येत' व्यक्तेः प्राक् पश्चाच्च । अथ न योग्या तदा कदाचिद् 113b दश्येत । किं कारणं ( 1 ) तस्मिन् विज्ञानजननयोग्यस्वभावे तद्विपरीते चावस्थानात् । सर्वकालमेकरूपत्वादित्यर्थः । असमर्था व्यक्त्यसन्निधाने तत्सन्निधाने तु समर्था भवति ।