________________
३०६ . प्रमाणवात्तिकस्ववृत्तिटीका (१।१५५) सर्वत्र सर्वाकारः स्यात् । तथा च सति गव्यप्यश्व इति प्रत्ययः स्यात् । अश्वे स्थितात्मनोव्यसम्बन्धात्, तत्स्वभावप्रतिपत्त्या च तथा निश्चयाद, तस्यैकस्याकारान्तराभावात् ।
तस्माद् अनवयवं अनेकदेशे युगपन्नाधीयते। पूर्वमाधारं हित्वाऽपि भिन्नदेशस्थानमित्यपि नाभिमतः ।
अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मनि ॥१५५॥
वर्त्ततेपि तु स्वसाध्यप्रतिबद्धलिङ्गनिमित्तम् (।) अतः सामान्यज्ञानस्य बाधकन्तस्मानास्ति परमार्थत एकम्वस्त्वेकदाऽनेकवृत्तिः। वृत्तौ तु तत्स्थितास्थितात्मनोविरोध एव। आ चा र्य स्त्वभ्युपगम्यापि दोषमाह। तत्स्वभावेत्यादि।। सामान्यस्वभावस्य दर्शनमाश्रयो यस्य प्रत्ययस्य स सर्वत्र भिन्नजातीयेपि द्रव्ये सकार.
स्यात्। तथा च सति गामप्यश्व इत्यादि। किङ्कारणम् (1) इत्याह। अश्वे IH3a स्थित आत्मा यस्य द्रव्यत्वस्येति विग्रहः । गमकत्वाद् व्यधिकरणस्यापि बहुब्रीहिः ।
अश्वे स्थित इति वा साधनं कृतेति समासः । पश्चादात्मशब्देन द्विपदो बहुब्रीहिः । तत्स्वभावप्रतिपत्त्या चाश्वस्थितस्वभावद्रव्यत्वप्रतिपत्त्या च तथा निश्चयाद. - गौव्यमिति निश्चयात्।।
स्यादेतत् (1) नाश्वसमवेतद्रव्यत्वप्रतिपत्त्या द्रव्यमिति प्रतीतिः (1) किन्तर्हि (1) द्रव्यत्वमात्रप्रतिपत्त्येत्यत आह । तस्य चेत्यादि । तस्य चाश्वे द्रव्यत्वस्यैक स्यादृष्टस्याप्रतिपन्नस्याश्वसमवेतत्वव्यतिरेकेणाकारान्तरस्याश्वास (स) मवेतत्वलक्षणस्याभावात् । तस्मादश्वसमवेतेनैव द्रव्यत्वेन विशिष्टां गां द्रव्यमिति प्रतिपद्यमानोश्व इति प्रतीयात् । यस्य त्वश्वव्यतिरिक्तमेव द्रव्यत्वसामान्यन्तेन च विशिष्टमसौ गां प्रतिपद्यमानो नियमेनाश्व इति प्रतीयात् ।
तस्मादित्युपसंहारः। अनवयवं सामान्यमनेकदेशेऽनेको देशोऽस्येति तस्मिन् घटादौ युगपन्नाधीयते। नाधेयतां प्रतिपद्यते। इयता च न चांशवदित्येतद् व्याख्यातं।
जहाति पूर्वन्नाधारमित्येतत् पूर्वेत्यादिना व्याचष्टे। स चेति पूर्वाधारत्याग: सामान्यस्य नाभिमतः। (१५४-५५)
अन्यत्रेति पूर्वव्यक्तौ वर्तमानस्य सामान्यस्य स्वस्मात् पूर्वाधारदेशाद् अचलतस्ततः पूर्वाधार देशादन्यत्र स्थाने जन्म यस्य द्रव्यस्य तस्मिन् वृत्तिरित्यतियुक्ति
१ Panini 2.2