SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता ३०५ सर्वत्र सर्वदा सर्वाकारेण स्थितात्मनेति चेत्, तत्स्वभावदर्शनाश्रयप्रत्ययः ननु यथैकत्यागेनापरत्र वृत्तिरेवमपरापरावयवैर्बहुषु च वृत्तिर्दृष्टत्वादिति द्विविधाभ्युपगम्यते। तथा सामान्यं यदा येनैव रूपेणैकत्र वृत्तन्तदैव तेनैव रूपेणान्यत्र वर्त्तते दृष्टत्वादिति सापि तृतीया वृत्तिः किन्नाभ्युपगम्यते। तदुक्तम्भ ट्रेन ॥ II2b "न हि द्वैविध्यमेवेति वृत्तेरस्ति नियामकं ।' ... त्रिविधापि हि दृष्टत्वात् सम्भवेद् द्विविधा यथे"ति ।' . उ द्यो त क रो प्याह। “न गोत्वमवयवी न च समुदायस्तस्मान्न तत्र कृत्स्नैकदेशशब्दौ स्तः। न चेत् तत्रैतौ शब्दौ स्तः तस्माद् गोत्वं किं कृत्स्नम्वर्त्तते उतैकदेशेनेति न युक्तः प्रश्नः। कथन्तर्हि गोत्वं गोषु वर्त्तते। आश्रयाश्रयिभावेन । क: पुनराश्रयाश्रयिभावः (1) समवायः। तत्र वत्तिमद गोत्वं । वत्तिः समवाय इह प्रत्ययहेतुत्वात्तेन सर्वत्र पूर्वद्रव्य उत्पित्सुद्रव्ये च समवाय एव वृत्तिरतः कथमुच्यते (1) स्थितास्थितात्मनोरेकत्र विरोधादयुक्तमेतदि"ति। एतदेवाह। सर्वत्रेत्यादि। सर्वत्र पूर्वव्यक्तावुत्पित्सुद्रव्ये च । सर्वदेवोत्यत्सुद्रव्योत्पादेपि यदा वर्त्तते तदापि द्रव्यन्न जहाति। तेन स्थितास्थितात्मनो कत्र विरोधो स्थितात्मनोऽभावादिति। तदयुक्तं । न ह्येकसमवेतत्वमेवान्यव्यक्तिसमवेतत्वमन्यस्यास्तत्र प्रतिभासनप्रसङ्गात् (1) तस्मादेकसमवेतत्वान्यसमवेतत्वयोः परस्परं भेद एव। तच्चाभिन्नं सामान्यादेकसमवेतत्वादननुगमवदन्यत्र सामान्यस्या- . प्यननुगमप्रसङ्गः । यद्वैकव्यक्तिकालादिसम्बन्धेन ज्ञानजननशक्तिर्यासामन्यस्य । न साऽन्यव्यक्त्यादिसम्बन्धत्वेन । तेनैकस्यां व्यक्तौ सामान्यस्य ज्ञानजननशक्तिरन्यस्यां ज्ञानजननशक्तिविरोधिनी। शक्तिश्च शक्तिमतोऽभिन्ना। शक्तिलक्षणत्वाच्च वस्तुनः। तेन यद्वस्त्वेकन्तदेकवृत्त्येवेति व्याप्तिसिद्धिः। वस्तु चैकं सामान्य याद कथमन्यत्रापि वत्तत। तथाभूत स्य प्रतिभासादिति चेत् (1) न। प्रतिभासो ह्यप्रतिभासस्य बाधको नावस्तुनस्तस्यापि प्रतिभासनात्। अस्य तु वस्तुप्रतिभासो बाधको न चानुगतं वस्त्वस्तीत्युक्तं । अत एव न प्रतिज्ञायाः प्रत्यक्षबाधा। सामान्यज्ञानस्य प्रत्यक्षत्वाभासा (?)च्च । ननु यावदस्याप्रामाण्यं न तावदनुमानस्य प्रबृत्तिर्यावच्च नानुमानस्य प्रवृत्तिस्तावन्नास्य प्रत्यक्षाभासतेत्यन्योन्याश्रयत्वं स्यादिति चेत् (1) न। यतोनुमानं प्रतिभासमानस्य वस्तुत्वसन्देहमात्रेणैव प्रवर्त्तते। नाप्यस्याप्रामाण्यनिमित्तमनुमानम्प्र 2 Nyāyavārtika. 1Slokavartika. ३६
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy