________________
. ३०४ प्रमाणवार्तिकस्ववृत्तिटीका (१।१५४) 466b अन्योन्याभ्यां तत्सम्बन्धात् पालोकरज्जुवंशवत् । न च सावयवत्वमन्तरेण
भिन्नदेशिनां केषांचित् एकत्र वृत्तियुक्ता तस्यात्मद्वयाभावात्, एकात्म'नश्च तत्प्रदेशत्तिसम्बन्धरूपत्वात, अन्यथा तत्सम्बन्धायोगात्। एकस्याधेयस्य यत्र स्थानंतस्मिन्नेव काले तेनात्मना तत्र न स्थानमिति एकस्य स्थितास्थितात्मनोयुगपद् विरोधाद् अयुक्तमेतत् ।
त्यागेन वा। प्रथमन्तावत् पक्षमाह। नानेत्यादि। एतच्च परप्रसिद्धयोच्यते। न त्वेकमनेकावयवात्मकमिष्यत इत्युक्तं। अन्यान्योभ्यामवयवाभ्याम्परस्परभिन्नाभ्यामंशाख्यान्तत्सम्बन्धात्। ताभ्याम्भिन्नदेशाभ्यां सम्बन्धात्। आलोको हि सावयवत्वादन्येनावयवेन घटेन सम्बध्यते। अन्येन घटादिभिः । एवं रज्जवंशदण्डादावपि स्वसम्बन्धिभिः ।
न होत्याद्यस्यैव समर्थनं। अथ सावयवत्वेन सामान्यमनेकवृत्तीष्येत। तथापि कथमेकमनेकत्र वर्तेत । यस्मादेकदेशाः सामान्यस्य वर्तन्त इति (1) ये च तदैकदेशाः सामान्यस्य प्रत्येकम्पिण्डेषु वर्तन्ते। ते किं सामान्यात्मका उत नेति (1) यदि सामान्यात्मका एकमेकत्र वर्तत इति प्राप्तं । न चैकमेकत्र वर्तमानं सामान्यमिति युक्तम्वक्तुं । अथ न सामान्यात्मकास्ते। कथं सामान्यमनेकत्र वर्तत इत्युच्यते। एकदेशेषु च सामान्यस्य यद्येकदेशान्तरेण वृत्तिस्तदानवस्था स्यात् । न च सावयवत्वमन्त रेणैकस्यानेकत्र वृत्तियुक्ता। अथानवयवं प्रतिपिण्डं परिसमाप्त्या पिण्डवदसाधारणत्वान्न सामान्यम्भवितुमर्हति । किं कारणन्तस्यानवयवस्य सामान्यस्यैकेन द्रव्येण सम्बन्धो य आत्मा। तद्वयतिरेकेण द्वितीयात्माभावात् । एकात्मनश्च तस्य सामान्यस्य तत्प्रदेशत्तिसम्बन्धरूपत्वात् । उत्पित्सुघटदेशात्। पूर्वदेशत्ति यद् घटद्रव्य न्तत्सम्बन्धिरूपत्वात् । नास्ति भिन्नदेशेन युगपद्योगः । अन्यथेत्युत्पित्सुदेशद्रव्यसम्बन्धरूपत्वे तत्सम्बधायोगात्। तेन पूर्वद्रव्येण सम्बन्धायोगात् । तस्मादेकव्यक्तिनियतात्मनः सामान्यस्य नास्ति तस्मिन्नेव काले भिन्नदेशेन द्रव्येण सम्बन्धः । सम्बन्धे वा पूर्वव्यक्तिनियतकात्मकत्वेन सामान्यस्य पूर्वव्यक्तौ स्थितिस्तस्मिन्ने व काले भिन्नदेशव्यक्तिसम्बन्धेनास्थितिरेतच्चविरुद्धमित्याह। एकस्याधेयस्येत्यादि। तत्र स्थानमिति पूर्वव्यक्तौ। तदैव तस्मिन्नेव काले व्यक्त्यन्तरे त्वयाभ्यपगमात् । पूर्वव्यक्तित्यागमन्तरेणैकस्य चान्यत्रान्वयायोगात्। तत्र पूर्वस्यां व्यक्तौ। तेनैव पूर्वव्यक्तिनियतेनात्मना। तस्य सामान्यस्यास्थानमित्ययुक्तमेतत्। किङ्कारणं । तस्थितेत्यादि । तस्यामेव व्यक्तौ स्थितास्थितात्मनोः स्वभावयोरेकस्य सामान्यस्य युगपद् विरोधात् ।