________________
४. सामान्यचिन्ता
३०३ पश्चादपि नास्ति । तत्राऽपि अनुत्पादात् न च कुतश्चित् प्रागतः, एवं अन्यत्र जाड्यात् क इमं भारं सहेत।
न चांशवत् ॥१५४॥ जहाति पूर्व नाधारं; उत्पित्सुदेशात् भिन्नदेशं । तयोश्च ।
अहो व्यसनसन्ततिः । भिन्नदेशयोर्वस्तुनोः सम्बन्धो द्विधा भवेद्--नानावयवात्मकं एकात्मकं वा।
व्यक्तावुत्पन्नायां। सामान्यशून्याया व्यक्तेरनभ्युपगमात् । न च तत्र देशे व्यक्त्या सहोत्पन्नं नित्यत्वात्। न च व्यक्त्युत्पाद एव सामान्यस्योत्पादो भिन्नत्वात् । अभिन्नत्वे वा ततो न सामान्यविशेषभावः स्यात्। न च कुतश्चित् पूर्वका द् व्यक्तिविशेषादागतं । एतन्न यातीति यदुक्तन्तस्यैवोपसंहारद्वारेणोपन्यासः । __ यावद्भिः प्रकारैः सामान्यस्य व्यक्त्यन्तरे सम्भवस्ते प्रकारा नेष्यन्ते तत्र च सामान्यमिष्यत इति व्याघातः। स च प्राज्ञानान्दुःसहत्वाद् भारः। अत एवाह । क इममित्यादि । प्राज्ञो हि कथमयुक्तं सहते। जडस्त्वज्ञानाद् युक्तायुक्तविचारणाक्षमः सहेतापि। यदाहान्य त्र जाड्यादिति ।
ननु चोत्पित्सुद्रव्ये सामान्यस्योत्पत्तावपि समवेतत्वं प्रतिभासादेवावगन्तव्यं (1) स च व्यक्तिसमवेतत्वप्रतिभासोनुत्पादेपि सामान्यस्य विद्यत एवेति किमुत्पादेन व्यक्तिसमवेतञ्च सामान्यस्य रूपमिष्यते। तेन तत्पूर्वद्रव्यसमवेतमपि ततोऽविचलदुत्पित्सुद्रव्यसमवेतं च प्रतिभासत इति कथन यातीत्यादि दूषणायोच्यतेभीष्टत्वात्।
सत्त्यं । यो हि सामान्यस्य प्रतिभासं नेच्छति तस्येदं दूषणं स्यात् प्रतिभासत इति। यस्तु सामान्यप्रतिभासोलीक इति मन्यते तस्य कथं दूषणं। अलीकत्वं चोत्पित्सु द्रव्यं न याति न च तत्रासीन्न चोत्पन्नमित्यादिना ग्रन्थेन सामान्याभावेपि सामान्यावभासिनो ज्ञानस्योत्पत्तेः प्रतिपादितमा चा र्येण (1) न च प्रतिभासनादेव सत्यत्वं। द्विचन्द्रादेरपि सत्यत्वप्रसङ्गात्।
नापि प्रत्यक्षबाधैका बाधा। अनुमानबाधाया अपि बाधात्वात् (1) यदि तदंशवत् स्यात्तदैकेनांशेन पूर्वम्भिन्नाधारे स्थितमंशान्तरेणोत्पित्सु द्रव्यं व्याप्नुयात् । अनंशम्वा पूर्वमाधारं हित्वा। द्वयमप्येतनास्तीत्याह। न चेत्यादि। पूर्वमाधारमिति सूत्र भागं। उत्पित्सुदेशाद् भिन्नदेशमिति मिश्रके'ण स्पष्टयति। तयोश्चेति II2a पूर्वपश्चादुत्पन्नयोर्द्रव्ययोः।
भिन्नेत्यादिना व्याचष्टे। द्विधा भवेदिति। नानावयवात्मतया। पूर्वांधार